________________
प्रकारान्तराभावसाधनार्थमपि नाभावप्रामाण्यम् ।
ननु च विकल्पव्यापार एष ' इदमन्यात्मकं न भवति अन्यथैतदात्मकम्' इति । प्रत्यक्षं च निर्विकल्पकमिष्यते तत् कथमसांकर्यसिद्धिस्तत: ? इत्यत आह " तस्यान्वये "त्यादि । तडि प्रत्यक्षं विधिप्रतिषेधविकल्पौ यदा स्वविषये जनयति तदैवास्य साफल्यम्, तदैव च प्रमाणमिष्यते [T. 349a. ] नान्यदा । अत ए- 5 वैकस्यार्थस्वभावस्याप्रतिपन्नांशाभावात् सर्व्वात्मना परिच्छेदेsपि भ्रान्तिकारणसद्भावात् क्षणिकतादावन्वयव्यतिरेकबुद्धी जनयितुमसामर्थ्यात् तत्रास्य प्रामाण्यं नेष्यत इति ।
स्यान्मतम् - द्वैराश्यसाधनेऽप्यसांकर्यसिद्ध्यर्था मा भूदभावप्रमाणकल्पना किन्तु प्रकारान्तराभावसिड्यर्था भविष्यति । 10 न हि तदभावसिडौ प्रत्यक्षस्य कश्चिद् व्यापारः [S. 187a.] प्रतिपादित इति अत आह "तद्व्यतिरिक्ते"त्यादि । तस्मात् परिदृश्यमानाद् व्यतिरिक्तस्याशेषस्य वस्तुनो व्यवच्छेदेन ततः पृथक्करणेनान्यत्वेन या व्याप्तिस्तत्साधनादेव प्रकारान्तरस्य तत्त्वान्यत्वबहिर्भूतस्याभावः सिध्यति । ततस्तदर्द्धमपि नाभावप्रमाण- 15 कल्पना युक्तेति ।
१९७
66
अथ मतम् - सर्व्वस्यापरिदृष्टस्य दृश्यमानादन्यतया व्याप्ति नैव प्रत्यक्षं साधयति तत् कुतस्तृतीयराश्यभावः प्रत्यक्षत एव स्यात्, यतोऽभावप्रामाण्यकल्पना व्यर्था भवेदित्यत आहतस्य " तृतीयराशितया कल्प्यमानस्य ततो दृष्टादन्यतया व्या- 20 प्त्यभावे "तेन” प्रत्यक्षेण " " ततोऽर्थात् स्वविषयस्य "अव्यवच्छेदा”दपृथक्करणात्, तदर्थस्य च राश्यन्तरत्वेन कल्प्यमानस्य स्वविषयादव्यवच्छेदात् अपृथक्करणात् पुनरपि भावस्य स्वविषयस्यापरिच्छेदप्रसङ्गात् । [T. 349b. ] स हि तद्विषयः सकलपररूपासंकीर्णात्मा यदि तेनात्मना न परिच्छिन्नः कथं तेन तस्य परि- 25 च्छेदः ? । तेनात्मना परिच्छेदे वा कथं सर्व्वस्य तदन्यतया व्यात्यसाधनम् ? अन्यथैकस्यापि तदन्यत्वं न स्यात्, निमित्तस्य समानत्वादिति । यत एवं " तस्मात् " कचिद्वस्तुनि प्रमाणं प्रत्य१. स्वभावस्य प्रत्यक्षाशां - T. । २. तदर्थाव्यवच्छेदादिति समासद्वयेन चा ( व्याचष्टे ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org