________________
हेतुबिन्दुटीका। तिभासज्ञानमेव तदन्येभ्यो निवर्तनम् । नहि ज्ञानेनार्थो हस्ते गृहीत्वाऽन्यतो निवर्त्तनीयः। केवलमन्यरूपासंकीर्णस्यैकस्यात्मनोऽनुकरणमेवास्यान्यतो [T. 248a.] निवर्त्तनमुच्यत इति । अ. थान्यात्मनः स्खविषयं न निवर्तयेत्, तदाऽस्य विषयस्यान्यात्मनः 5 सकाशाव्यवच्छेदे पृथगव्यवस्थापने परात्मनोऽपि तत्र परिच्छेदः स्यात्, अन्यथा तंदपरिच्छेदस्यैवैकात्मपरिच्छेदात्मनस्तनिवर्तनरूपता [S. 186a.] स्यात् । ततश्चाव्यवच्छेदेऽन्यात्मनस्तत्परिच्छेदप्रसङ्गात् प्रवृत्तिनिवृत्त्योरभाव इति पूर्व: प्रसङ्गो 'न ह्य
यमनलं पश्यन्नपि' इत्यादिकः । 10 न केवलमन्यात्मनस्तन्निवर्तयति तदात्मनोऽप्यशेषमन्यदिति
दर्शयन्नाह - "तं च” अग्रतः स्थितं देशकालस्वभावावस्थानियतं तदन्यदेशादिभ्यो व्यावृत्तात्मनः खहेतुभ्यः एवास्य भावात्, " तदात्मना " देशादिनियतेनात्मना तथाविधखभावस्यैवानुकारादुपलभमाना बुद्धिः "तथात्वप्रच्युतिम् अन्यदेशकालखभावावस्थताम् 15 "अस्य" खविषयस्य “ व्यवच्छिनत्ति " ततः पृथक्करोति । कस्मात्पुनर
न्यदेशादितां ततः पृथगवस्थापयति इत्यत आह - "एवं हि " यस्मादन्यदेशतादेस्ततः पृथक्करणे सति तद्देशादिनियतः पदार्थः [T. 348b.] परिच्छिन्नो भवति, तद्रूपस्यैवानुकाराद् । यद्यन्यथा
भावोऽन्यदेशादिता तद्रूपाननुकारायवच्छिन्नः-भवति तथात्वं 20 च तद्देशादिनियतत्वं च, तदा तस्यैव दृश्यमानस्य भवति नान्यस्यान्यदेशादिमतः । यत एवम् “इति” तस्मादन्यथाभूतादन्यदेशादिमतस्तथाभूतं तद्देशादिमंतं " व्यवच्छिन्दत्येव ” [S. 186b.] निवर्तयन्त्येव तत् परिच्छिनत्तीति पूर्वकस्योपसंहारः । तथा
"तथाभूतादन्यथाभूतं व्यवच्छिन्दत्येव” इति द्वितीयस्योपसंहारः कार्य इति । 25 "एवम्” उक्तेन न्यायेन "एकस्य” प्रमाणस्य प्रत्यक्षस्थानुमानस्य वा तस्याप्येवमेव खविषयपरिच्छेदान " वृत्तिः " प्रवृत्तिः सर्वभावान् " द्वैराश्ये " तत्त्वेऽन्यत्वे च " व्यवस्थापयति "। ततस्तत्परिच्छेदकप्रमाणबलेनैवासाङ्कर्यसिद्धिः । किं तदर्थिकयाऽप्यभावकल्पनयेति । १. घट । २. भूतल । ३. घट । ४. पृ. १८९ पं. २४ । ५. तथात्वाप्र° T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org