________________
. वस्त्वसंकरसिद्धिर्नाभावप्रामाण्यसमाश्रिता।
१९५ वस्ततो “ व्यवच्छेदो ” भेदनं पृथक्करणमन्यत्वसाधनमसङ्कीर्णरूपताप्रत्यायनं भवति । कथं पुनरेकात्मपरिच्छेदादेव तस्य' तद्न्यात्मनो व्यवच्छेदः प्रत्यक्षेण क्रियते ?, यावता प्रत्यक्षं पुरोऽवस्थितपदार्थसामर्थ्य भावि [S. 185a.] तद्रूपमेव प्रतिपद्यताम् । यत्तु तव्यतिरिक्तमशेषपदार्थजातं तदात्मनस्तस्य पुरोऽव- 5 स्थितस्य कथं तद्यवच्छेदकम् ? अतः तयवच्छेदार्थमभावप्रमाणमभ्युपेयम् , यतो___" वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रिता ” [श्लोक० अभाव० २] इति।
अत आह - " तदात्मनियतप्रतिभासज्ञानाद्” इति। यतः पुरोऽवस्थितस्यैकस्य वस्तुनः पररूपासंकीर्ण आत्मा, सर्वभावानां खभा- 10 वत एव स्वखभावव्यवस्थितेः पररूपेणासंकीर्णखभावत्वात् । अन्यथा कथमभावप्रमाणतोऽप्यसांकर्यमेषां सिध्येत् ? । संकीपर्णरूपाणामसाङ्कर्यसाधने तस्य [T. 347b] भ्रान्तताप्रसङ्गात् । तस्मिन् पररूपासंकीर्णे स्वभावत एव तदात्मनियतो यः प्रतिभासः पररूपप्रतिभासासंकीर्णः तदेकपदार्थसामर्थ्यभाविनि 15 प्रत्यक्षे पररूपप्रतिभासायोगात् तस्य भ्रान्ततापत्त्या प्रत्यक्षता. हानेः। तदुक्तम् - " तद्धयर्थसामध्येनोत्पद्यमानं तद्रूपमेवानुकुर्यात् ” इति । तस्य तदात्मनियतप्रतिभासस्य ज्ञानात् प्रत्यक्षेण स्वसंवित्या संवेदनात् । तत्संवेदनमेव [S. 185b.] हि प्रत्यक्षस्यातद्रूपाद् “व्यवच्छेदन” पृथक्करणं तहलेनैव च पाश्चात्यः 'अन्यात्मकमेतन्न भवति' 20 इत्यसांकर्यव्यवस्थाप्रत्ययो विकल्पकः संजायते गृहीतग्राही । न तेनापूर्व किश्चित् प्रतीयते, पररूपासंकीर्णस्यात्मनः प्रत्यक्षेणैव तदाकारानुकारिणा परिच्छेदादिति ।
यदि नाम तदात्मनियतप्रतिभासज्ञानं तथापि कथमन्या- . स्मनः तस्य पृथक्करणम् ? इत्यत आह - " न हि तदात्म”इ- 25 त्यादि । यस्मात्तस्य वस्तुनो य आत्मा पररूपासंकीर्णः स तदन्यस्य शेषस्य वस्तुन आत्मा न भवति, सर्वस्य ततोऽन्यखभावत्वात्, अन्यथा तदन्यत्वहानेरिति । तस्मात्तदात्मनियतप्र१. प्रमातुः। -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org