________________
हेतु बिन्दु टीका ।
वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रिता [लोक० अभाव० २] " इत्येतदाहत्य निराकर्ते [S. 1842.] पूर्वपक्षमुत्थापयन्नाह " यद्येकपरिच्छेदादेव" इत्यादि । यदि हि "एकस्य" केवलस्य परिच्छेदादन्यस्य ""व्यवच्छेदः” प्रतिषेधः सिध्यति तदा सर्व्वस्था अ ( 'स्या) न्य5 स्याविशेषेणैव "तत्र" देशे यत्रासावेकः परिदृश्यते तत्राभावसिडिर्भवेत्, न तु विशेषपरिग्रहेण [T. 346b.] तुल्या स्वज्ञानजननं प्रति योग्यावस्था यस्य तस्यैवेति । तथा हि - असौ यथा तुल्ययोग्यतारूपपदार्थविविक्तरूप उपलभ्यते, तदेकाकारप्रतिनियमात् तज्ज्ञानस्य, तथा तदतुल्ययोग्यतारूपपदार्थविविक्तात्म10 कोऽपि । ततश्च तद्विविक्ताकारतया तदन्याभावसाधने विशेषाभावात् प्रदेशरूपज्ञानं घटाभावमिव रसाद्यभावमपि साधयेत्, न वा घटाभावमपीति ।
१९४
66
किञ्च यदेतद् 'उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरभाव साधनी' इति विशेषणमुक्तं तच्च न वक्तव्यम् । किं कारणम् ? यतो ये15 ऽप्यनुपलब्धिलक्षणप्राप्तास्तेषामपि तत्र देशे तदेकाकारतया ज्ञानस्य व्यवच्छेदो भवत्येव । तथा हि - यथोपलब्धिलक्षणप्राप्तास्तदेकाकारवति ज्ञाने न प्रतिभासन्ते ततश्च व्यवच्छिद्यन्ते [S. 184b.] तथाऽनुपलब्धिलक्षणप्राप्ता अपीतिं किम् 'उपलब्धिलक्षणप्रातस्य" इत्यनेन विशेषणेनेति । एवं पूर्वपक्षे व्यवस्थिते यदि तद20 न्यव्यवच्छेदः - ततः पृथक्करणमन्यत्वेन व्यवस्थापनमभिमतं तदम्युपगम्यत एव । अथ तद्देशकालयोरभावः, तदयुक्तम्, येन हि सामर्थ्येन तुल्ययोग्यतारूपस्योपलब्धिलक्षणप्राप्तस्य चाभावं साधयति न तत्सामर्थ्यमतुल्ययोग्यतारूपेऽनुपलब्धिलक्षणप्राप्ते वा सम्भवति । 'तयोः सतोन्नैकरूपनियता प्रतिपत्तिः असम्भवात्' 25 इत्येवं हि तदभावसाधनम् । न [T. 3472.] चैतदन्यत्र सम्भवतीति प्रतिपादयितुम् "एकात्मपरिच्छेदात्" इत्यादिनोपक्रमते । यत् पुरोsवस्थितं प्रत्यक्षेऽवभासते तस्यैकस्यात्मनः प्रतिनियतस्य रूपस्य परिच्छेदात् तदाकारोत्पत्त्या विधिविकल्पोत्पादनेन च यः ' तदन्यः " ततोऽन्यस्तद्व्यतिरिक्तस्तस्य सर्व्वस्य य “ आत्मा ” खभा
“
१. पू. १७२. पं. २२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org