________________
अभावप्रमाणवादनिरास: 1
ल्पकमाजायते । न तु तेनाप्रतिपन्नं किञ्चिदवगम्यते, यतस्तदन्यवस्तुनि विज्ञानं प्रत्यक्षात्मकमप्यनवगते तदन्याभावे ज्ञानं जनयत् पृथगभावप्रमाणतया व्यवस्थाप्येत । तथा हि - तदन्याकारशून्य एव तदेकज्ञानाकारः संवेद्यते । ततस्तत्संवेदनमेव तदभावसंवेदनम् । नहि विकल्पज्ञानस्यापि तदाकारशून्यरूपसं- 5 वेदनादन्यत्तदभावसंवेदनं नाम । केवलमस्य विकल्परूपतैवातिरिच्यते । ततो यथा निर्विकल्पज्ञानावसिते कचिदनले 'अनलोऽत्रास्ति' इति पाश्चात्यो विकल्पो व्यवहारप्रवर्तनमात्रं न ततः पृथक् प्रमाणं यथोक्तं प्राक्, तथा नास्तिताज्ञानमपि विकल्पकं तत्कंलद्वारेण वाऽन्यवस्तुविज्ञानं न प्रत्यक्षात् पृथग भावाख्यं [S. 183b.] 10 प्रमाणमिति । तस्माद् यदेवास्माभिरभिहितं तदन्याभावप्रतीतिं प्रति, तदेव त्वयाऽप्यभिधीयत इति कस्मात् परुषमिवाभाति यतस्तदनभ्युपगमेन पृथगभावाख्यं प्रमाणमभ्युपगतमित्युपहसति । तथा गत्येदानीं त्वयोच्यते न मध्यस्थतया अन्यथेदमेव किं न पूर्वमेवाभिहितम् ?, यत आलजालाभिधानेनाऽऽत्मा प- 15 रिक्लेशित [T.346a ] इत्युपसंहरन्नाह - " तस्मात् तीरादर्शिनेव " इत्यादि । यथा किल वहनारूढैव्र्व्वर्णिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति । स यदा सर्व्वतः पर्यटंस्तीरं नासादयति तदा वहनमेवागच्छति तदेतदपि द्रष्टव्यम् । यतश्चावश्याभ्युपगमनीयोऽयं पक्षस्तस्मान्न किञ्चिदनयाऽविद्यमानप्रतिष्ठानया 20 दिशः प्रतिपत्त्या प्रयोजनम् ।
तदेवं परस्यान्यभावतद्भावयोर्लिङ्गलिङ्गिभावमिच्छतः संम्बन्धाभावादसावयुक्तः इति प्रतिपादिते परेण 'असति सम्बन्धेऽन्यभावगत्याऽपि तदभावगतिन्न स्यात् ' इति चोदिते 'न वै कुतश्चित् सम्बन्धाद्' इत्याद्यभिहितम् । ततः 'अन्यभाव एव 25 तदभावोऽन्यभावगतिरेव च तदभावगति: ' इति प्रसाधयता कुमारिलपरिकल्पितः कस्यचिदभावनिश्चयार्थमभावप्रमाणवादः प्रसङ्गतो निरस्तः सम्प्रति तु -
१. नास्तित ज्ञान । २. पृ. १७८. पं. २३ । पृ. १८०. पं. १७ ।
२५ हे.
Jain Education International
१९३
For Private & Personal Use Only
www.jainelibrary.org