________________
हेतुबिन्दुटीका। "ततश्च' प्रवृत्तिनिवृत्त्योविरुद्धयोर्युगपद्नुष्ठातुमशक्यत्वात् "दुस्तरं व्यसनं प्रतिपत्तुः स्यात् । " __ अत्र परस्य [S. 182b.] वचनावकाशमाशङ्कयाह - "तत एव" इत्यादि । न मया [T. 345a.] सलिलोपलम्भनिवृत्तिमात्रात् तु5 च्छरूपात् तद्भावगतिरुच्यते, यथोक्तदोषप्रसङ्गात् । किन्तु य. देतदेकस्य केवलस्यानलस्य दर्शनं तत एवान्यस्य तत्राप्रतिभासमानस्य सलिलस्याभावगतिर्भवति विज्ञानं वाऽन्यवस्तुनि' इति वचनात् ।
सिद्धान्तवाद्याह - “ कथमेकम् ” इत्यादि । केन पुनः सामर्थ्येन 10 तदेकदर्शनम् “अन्याभावं प्रत्याययति ? " । तथाहि - तस्मिन् दृश्यमाने तदेवास्तीत्यवगच्छतु, तदन्यत्तु नास्तीति किमिति प्रत्येतीति । " तस्यैव " परिदृश्यमानस्थानलादेः “ केवलस्य " सलिलासंसृष्टरूपस्य “दर्शनाद् अनलज्ञाने प्रतिभासनात् 'सलिलं नास्ति' इति निश्चयः सञ्जायते । तथाहि - अनल इव सलिलमपि यदि 15 तत्राभविष्यत् तदप्यनलवद् दर्शने प्रत्यभासिष्यत तयोः खज्ञानं प्रत्यविशिष्टत्वाद् योग्यताया नैकस्य प्रतिभासो युक्तः । तस्मादेकप्रतिभासनमन्याभावनान्तरीयकं इत्यन्याभावे ततो ज्ञानमुत्पद्यते अन्यवस्तुनि च विज्ञानं नास्तीति ज्ञानं जनयति । तथाऽन्यद् वस्तु पररूपासंकीर्णखभावतयैव तथोच्यते । तद्रूपत20 यैव च तज्ज्ञानमन्येत् प्रतियदेवं व्यपदिश्यतेऽन्यथा तंदयोगादित्यन्यप्रतिपत्तिरेव तदभावविकल्पहेतुरिति सिद्धान्तवाद्याह - " इदमेव ” इत्यादि । नन्वस्माभिरिदमेव प्रागभिहितं " तेयोः सतोः नैकरूपनियता प्रतिपत्तिः असम्भवात् ” इत्यादिभिवचनैः । ततो
यदेवान्यासंसगिणः केवलस्य [T. 345b.] प्रतिभासनं तदेव त25 दन्याभावस्यापि, तस्यैव केवलस्य तदन्याभावात्मकत्वादन्यस्य चाभावांशस्य निरस्तत्वात् । ततः प्रत्यक्षावभासितत्वात् तदभा. वस्य तबलात् पाश्चात्यं व्यवहारप्रवर्तनरूपं नास्तिताज्ञानं विक१. असकीन (ण)वस्तुप्रतिभासितया । २. अन्यज्ञानम् । ३. असंकीर्णत्वाभावे । ४. अन्यत्वायोगात् ।
५. पृ० १७२. पं० २२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org