________________
असंकीर्णरूपाग्रहे प्रवृत्तिनिवृत्यभावः । भावः कस्यचित् प्रतिपत्तिः परिच्छेद इति यावत्, परिच्छेदस्य ज्ञानधर्मत्वात् । अथ न तस्य प्रतिपत्तिरूपतेष्यते किन्तु तहेतुभाव इत्यत आह - " प्रतिपत्तिहेतुळ " इति । नहि सर्वसामर्थ्यविरहलक्षणस्याभावस्य प्रतिपत्तिं प्रति हेतुभावो युक्तः । हेतुभावे वा तस्यानपेक्षितसहकारिणो नित्यं तज्ज्ञानजननादभाव- 5 ज्ञानमेवैकं प्रतिपत्तुः स्यात् , ज्ञानान्तरस्यावकाश एव न भवेत् । - न चाज्ञातस्यास्य नास्तिताज्ञानजननं युक्तमित्याह - " तस्यापि " सलिलोपलम्भाभावस्य कथं प्रतिपत्तिः। अथायं सलिलोपलम्भाभावः खयमप्रतीत एव सलिलाभावप्रतीतिं जनयति तदा कस्यचिदपि । तदेवाह – “तस्य' सलिलोपलम्भाभावस्य 10 ततो वा सलिलादन्यस्यानलादेः 'विज्ञानं वाऽन्यवस्तुनि' इत्यत आत्मनोऽपरिणामस्य पृथगवस्थापनात्, तत्रापि तदङ्गीकरणे चात्मनोऽपरिणामस्य [T. 344b.] तदात्मकत्वान्न ततो भेदेन व्यवस्थाप्येत । ततश्च कस्यचिदपि [S. 182a.] तस्य तदन्यस्य वाऽप्रतिपत्तावपि यद्यभावः सलिलादेः प्रतीयते तदा स्वापाद्यवस्था- 15 खपि सलिलाद्यभावः किं न प्रतीयते ? । तदापि तद्भावः प्रतीयेतेत्येतद्विचारितम् प्रमाणविनिश्चये, तत एवावधारणीयम् । व्यवधानादिग्रहणेन चैतद्दर्शयत्यन्यवस्तुनोऽप्यन्यत्वं तत्तुल्ययोग्यतारूपापेक्षमेव , न तदनपेक्षमुपेयम् । तथा चास्मदुपवर्णिणतानुपलब्धिसिद्धिरिति । यदा चैवमुक्तेन प्रकारेणानुपलम्भेन सलि- 20 लाभावप्रतीतिर्न युज्यतेऽनलप्रतिभासिनश्च ज्ञानस्य प्रतिनियताकारता नाभ्युपगम्यते "तस्मादयम्” अनलदर्शी प्रतिपत्ताऽनलं “पश्यन्नपि" सङ्कीर्णरूपप्रतिभासिना ज्ञानेन 'अनलोऽयं न सलिलम्। इति नाध्यवस्यति अनध्यवस्यंश्च सलिलरूपस्यापि प्रतिभासनात् तदर्थी " न तिष्ठेत् ' प्रवर्तेत “ नापि प्रतिष्ठेत ” सलिलार्थी 25 न प्रवर्तेत । तथाहि - सलिलं नाम तदुच्यते यत् सर्वोदन्यासन्तापाद्यपनयनक्षमं सकलतदन्यरूपासंकीर्णप्रतिनियताकारज्ञानावभासि । इदं त्वन्यदेव शबलरूपं किमप्यवभासत इति । १. तृषा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org