________________
१९०
हेतु बिन्दुका
पत्ता कथम् " अनलमेव पश्यति ” न सलिलादिकम् ? । सङ्कीर्णरूपवस्तुप्रतिभासिज्ञानतया " सलिलादिकमपि " पश्यति । ततः कथं " सलिलार्थी तत्र " अग्निमति प्रदेशे " न प्रवर्तेत " ? ।
' किन्तु '
परस्य वचनावकाशमाशङ्कयाह - [T. 343b. ] "अनुपलम्भेन” 5 इत्यादि । अनलप्रतिभासिना हि ज्ञानेनानलखरूपमेव प्रतीयते । यस्तु सलिलाभावः स तत्र सलिलस्यानुपलम्भेन । ततो ज्ञानद्वयेन तदतद्रूपयोविवेकाल्लोके प्रवृत्तिनिवृत्तिलक्षणः प्रतिनियतो व्यवहारः सिध्यतीति । सिद्धान्तवाद्याह - "कोऽयमनुपलम्भो नाम” इति । कदाचित् परो ब्रूयात् सलिलोपलम्भविरहमात्रमित्यत 10 आह “ यदि सलिल "इत्यादि । कुमारिलस्य तु सलिलोपलम्भनिवृत्तिमात्रं तुच्छरूपमभावप्रमाणतया नाभिमतमेव ।
-
Jain Education International
(6
" प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । [S. 181a.]
सात्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि ॥ [ श्लोक० अभा० ११]" इति वचनात् । किन्तु योऽसावात्मनः प्रतिषेध्यवस्तुप्रतिभा15 सिज्ञानात्मनाऽपरिणामः स तदन्यवस्तुप्रतिभासिज्ञानसहचरितोऽभ्युपगन्तव्यो न केवल इति परमभ्युपगमयितुमस्योपन्यासः । तथा चान्यवस्तुविज्ञानमेवाभावप्रमाणमस्तु, किमप्रमाणकंस्यात्मनोऽपरिणामाख्येन धर्मेण परिकल्पितेन ? । न च तदन्यवस्तुविज्ञान परिणामादन्य एव तस्यापरिणामो नाम भवतोऽभि20 मतो भावान्तरस्यैवाभावत्वेनोपगतत्वात् । तुल्ययोग्यतारूपस्यैकज्ञानसंसर्गिण एव चान्यवस्तुनो विज्ञानं तथोपेयं नान्यस्य, तज्ज्ञानात् प्रतियोग्यभावसिद्धेः । न हि रूपज्ञानाद्रसाद्यभावप्रतीतिर्युक्तिमती [T. 344a.] देशादिविप्रकर्षवतो वा । अन्यवस्तुविज्ञानं च प्रतिनियतरूपप्रतिभास्येव । रूपान्तरावभासित्वे हि 25 तस्य सलिलोपलम्भाभाव एव न सिध्येत् । एवं च प्रतियोग्यभावः प्रत्यक्षावैभासित एव । तदभावव्यवहारे स्वस्मदभिमतैवानुपलब्धिरायातेति प्रतिपादयितुमस्योपन्यासः । तत्र यदि सलिलोपलम्भाभावः [S. 181b.] तुच्छरूपोऽनुपलम्भस्तदा कथम
१. क्षावसितः T ।
For Private & Personal Use Only
www.jainelibrary.org