________________
कुमारिलाक्षेपस्य समाधानम् ।
यथागृहीताभिलापिनो विकल्पस्योपगमात् । विस्तरतश्चायमभाafवचारः प्रमाणद्वित्वसिद्धावभावं प्रमेयं प्रमाणं च विचारयता विहित इति तत एवावधार्य इति ।
अवश्यं च तदन्यभावप्रतिपत्तिरेव तद्भावप्रतिपत्तिः । ततो न वस्त्वसङ्करसिध्यर्थ, नास्त्यत्रेदम् इत्यभावव्यवहारार्थं 5 ' [S. 180a.] चाभावप्रमाणपरिकल्पना युक्तेति दर्शयन्नाह - " अन्यथा " यदि तत्प्रतिपत्तिरेव तदभावप्रतिपत्तिरिति नेष्यते 66 तदा तस्य " अन्यवस्तुनः स्वरूपपरिच्छेदेन ततोऽन्यस्यातद्रूपस्य " अव्यवच्छेदे " अनिराकरणे तदभावाप्रतिपत्तौ " तत्परिच्छेद एव न स्यात्”- तस्य तदन्यवस्तुनः खरूपप्रतिपत्तिरेव न स्यात् । किं कारणम् ? " तदतद्रूपयोः " 10 तस्य तदन्यवस्तुनो यद्रूपं प्रतिनियतं सकलत्रैलोक्यविलक्षणं य
तद्रूपं तद्रूपं न भवति पररूपं तयोः “ अविवेकाद् " अविवेचनाद् विवेकेनाव्यवस्थापनादसाङ्कर्येणाप्रसाधनात् । सकलपररूपासङ्कीर्ण हि तद्रूपम् तच्चेत् [T. 313a ] तत्सामर्थ्य भाविना प्रत्यक्षेण तथा नानुकृतं केवलं संम्मुग्धाकारमेव तदुत्पन्नं तदा कथन्तेन तत्परि- 15 च्छेदः स्यात् ? । न हि यद्रूपं यद्वस्तु तद्रूपाननुकारिणा ज्ञानेन तत्परिच्छेदो युक्तो यथा शुकुशङ्करूपाननुकारिणा कामलिनः पीतशङ्खावभासिना ज्ञानेनेति । प्रतिनियतरूपानुकारे वा तत्परिच्छेदस्य कथमन्याऽव्यवच्छेदो नाम ? । ततः प्रतिनियतरूपाननुकारादेव तदन्याव्यवच्छेदः । तथा च तत्परिच्छेदाभाव इति । 20 भवत्वेवं ततः को दोष: ? इत्यत आह - “ य एष व्यवहारः १७ सर्व्वजनप्रतीतः “कस्यचिद्” अग्न्यादेर्व्वस्तुनो दर्शनात् “क्वचिद्देशे " तत्सम्बन्धिनि [S. 180b. ] “प्राप्त्यर्थो ” दृष्टस्यादृष्टस्य च “परिहारार्थः " प्रवृत्तिनिवृत्तिलक्षणः “स न स्यात्" । किं कारणम् ? । " न हि " यस्माद् "अयं" प्रतिपत्ता “अनलं पश्यन्नपि” सङ्कीर्णतद्तद्रूपप्रतिभा- 25 सिंना प्रत्यक्षेण, अन्यथाऽस्य दर्शनरूपताहाने:, तथा हि - असङ्कीपूर्णस्यादर्शने सङ्कीर्णमपि यदि न पश्येत् तदा लोष्टादिप्रख्यं कथं कस्यचिदेतद्दर्शनं स्यात् । स एवंभूतः सङ्कीर्णदर्शनवान् प्रति१. न युज्यते T. । २. संयुक्त T. ।
Jain Education International
,
૨
For Private & Personal Use Only
www.jainelibrary.org