________________
हेतु बिन्दुटीका ।
भेदभिन्नः, न चावस्तुनो भेदः सम्भवति अतोऽयं वस्तुरूप एव ।
यदाह
ફેટ
Ba
"न वास्तुन एते स्युर्भेदास्तेनास्य वस्तुता ॥ " [श्लोक० अभाष० ८] इति । न च भावांश एवाभावांशो युक्तः, तस्येन्द्रियसंयोगबलेन प्र5 तीतेः, इतरप्रतीतेश्च तदसंयोगहेतुकत्वात् । यदाह -
" तत्संयोगे सदित्येवं सद्रूपत्वं प्रतीयते ।
नास्त्यत्रेमितीत्थं तु तदसंयोगहेतुकम् ॥” [लोक० अभाव० २६] इति । तत्कथं तत्प्रतिपत्तिरेवापरस्य व्यवच्छेदनमिति तन्निरासार्थमाह । " तस्यान्यस्य प्रदेशस्य [T. 342a. ] केवलस्य यत् तत् "कैवल्य" मे10 काकित्वमसहायता तदेव "अपरस्य" प्रतियोगिनो घटादेः "वैकल्यम्” अभाव "इति" तस्मात् " तदन्यभाव एव" भावांश एव त्वदभिमतः “तदभावः” प्रतियोग्यभावांशो न ततः पृथग्भूतं धर्मान्तरमित्युच्यते सुगतसुतैः । ततश्च " तत्प्रतिपत्तिरेव च " तस्यान्यभावस्य प्रतिपत्तिरेव च' “ तदप्रतिपत्तिः " तस्य प्रतियोगिनोऽप्रतिपत्तिरभावप्र15 तिपत्तिरिति यावत् । एवं मन्यते - योऽयमभावांशी भावांशात् पृथग्भूतो वस्तुनो धर्मः परिकल्प्यते स घटाद्यभावात्मकतां [S. 179b.] तद्रूपवैकल्यादेवानुभवति नान्यथा । तच्च तद्रूपवैकल्यमन्यवस्तुनो भावांशस्यापि विद्यत एव । तदभावे हि तस्यान्यवस्तुतैव हीयेत । नहि यद् यद्रूपविकलं न भवति तत् ततोऽ20 न्यत्वमनुभवति, यथा तस्यैव स्वरूपम्, तथा चाभावांशोऽपि तस्य न सिध्येत् सर्व्वे च विश्वमेकं द्रव्यं प्रसज्येत ततश्च सहोत्पत्त्यादिप्रसङ्गः सर्व्वस्य च सर्व्वत्रोपयोगः स्यादित्यवश्यमन्यवस्तुनो भावरूपता तदन्याभावात्मिकैव । तथा च तत्प्रतिपत्तिरेव तदन्याभावप्रतिपत्तिः । तत्संयोग एव चेन्द्रियस्य तद25 न्याभावसंयोग [T. 342b. ] इति किमुच्यते
5
"
Jain Education International
“ नास्त्यत्रेदमितीत्थं तु तदसंयोगहेतुकम् । " [ श्लोक ० अभाव० २६] इति ? | विकल्पापेक्षयोक्तमिति चेत्, तदेतदबाधकमेव । प्रत्यक्षेण तदाकारोत्पत्त्या तदन्याभावात्मके एव वस्तुरूपे प्रतिपन्ने पाश्चात्यस्य
१. च तदभावप्रतिपत्तिः तदप्र° - T. २. तदन्यभा° T. । ३. न्याभावः तदात्मके - T
"
For Private & Personal Use Only
www.jainelibrary.org