SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १८६ हेतुबिन्दुटीका। साध्यता लिङ्गलिङ्गिनोः सम्बन्धो वा स्यात् । कुतो न सम्भवतीत्याह - तद्विशेषप्रतिपत्तेरेव” घटविविक्तप्रदेशविशेषप्रतिपत्तेरेव " तदभावस्य " घटाभावस्य प्रतीतेः । यतश्च विशेष एव घटाभावप्रतीतिनिबन्धनं ततः किं तत्र सामान्यकल्पनया क्रियत इति । 5 स एव विशेषोऽन्यत्र वर्तमानः सामान्यरूपतां प्रतिपत्स्यत इति चेत्, आह - " तस्य " घटविविक्तप्रदेशविशेषस्य "अन्यत्र" सजातीये "अन्वयस्य अनुवृत्तेरभावात् कुतः सामान्यात्मता ?। न ह्यसौ देशकालावस्थानियतो विशेषोऽन्यमन्वेतीति । अत्रैवोपचयहेतुमाह - " प्रतिज्ञार्थेत्यादि । यदि हि घटविविक्त एव प्रदेश10 विशेषो धर्मी, तस्यैव च हेतुतेष्यते, तदा प्रतिज्ञाया योऽर्थो धर्मधम्मिसमुदायस्तदेकदेश एव धम्मिलक्षणो हेतुः स्यात्, प्रतिज्ञार्थंकदेशस्य च व्यावृत्तितोऽपि भेदमनु(न)नुभवतो हेतुत्वमसिडमिति । अथ मा भूत् [S. 177a.] एष दोष इति न घटविविक्त एव प्रदेशविशेषो हेतुरिष्यते, किन्तु प्रदेशमात्रं घट15 विविक्तताविशेषरहितमित्यत आह - " न च यत्र प्रदेशमात्रं तत्र घटाभावः " । सघटेऽपि प्रदेशे प्रदेशमात्रस्य भावादनैकान्तिको हेतुः स्यात् । परोऽन्यथा सामान्यविशेषभावं [T. 340a ] दर्शयन्नाह - तादृशौ(शे) यादृशो घटविविक्तः केवलः प्रदेशोऽग्रतः स्थितस्ता20 दृशे सर्वत्र प्रदेशे घटस्याभाव इति कुतोऽनेकान्तः ? । तथाविधप्रदेशविशेषप्रतीतिरेव घटाभावप्रतीतिस्ततोऽन्यभावतभावयोः लिङ्गलिङ्गिताऽनुपपन्नेत्युपदर्शयन्नाह - " ननु तस्यैव " इत्यादि । योऽसौ केवलः प्रदेशविशेषो धम्मितयाऽवस्थापितस्तस्यैव यत् कैवल्यं केवल इत्यनेन विशेषणेनोच्यते भवता, त25 देव घटविरहो घटाभाव इति कथ्यते । स च घटविरहो लिङ्ग भूतस्य केवलस्य प्रदेशस्य प्रतिपत्तावेव सिद्धो न तूत्तरकालं ततोऽन्य एव आकारान्तरेण धूमादिवाग्निः सिध्यति । ततः कस्येदानीं " तत्प्रतिपत्तावेव ” साध्यप्रतीतो सत्यां तल्लिंङ्गम् ? । न क. १. प्रतिपत्तिकाल एव T. । २. धुमादेरनिः - T.। ३. लिलिजिनौ T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy