________________
समुदायस्य साध्यत्वेपि असंबन्धदोषस्तदवस्थः । मिणा "सम्बन्धात” तादात्म्यसद्भावादिति । तथा हि-शब्दादिधम्मिणा कृतकत्वादेस्तादात्म्यलक्षण एव सम्बन्ध इष्यते भवता । स इहास्तीत्यभिप्रायः । ततश्च 'सम्बन्धाभावाच' इत्ययुक्तमिति मन्यते।
सिद्धान्तवादी तु साध्यधर्मलक्षणस्य लिङ्गिनो घटाभा- 5 वाख्यस्यान्यभावेन लिङ्गेन सम्बन्धाभावः प्रागुक्तो न धम्मिणा तत: बदमुत्तरं संबध्यत इति मन्यमानो धम्मिणाऽप्यन्यभावाख्यस्य लिङ्गस्य सम्बन्धाभावं दर्शयन्नाह - "न" लिङ्गलिङ्गिनोरसम्बन्धो न चेति सम्बध्यते। तथा नासमुदायसाधनमिति । किन्तु लिङ्गलिगिनोरसम्बन्ध एवासमुदायसाधनमेव च एवमपि 10 ब्रुवतः । कुतः ? । प्रदेशादेरेव धर्मिमतयाऽवस्थाप्यमानस्यान्यभावत्वादन्यभावलक्षणलिङ्गत्वात् । एतदेव [S. 176b.] दर्शयति - यत्रैव हि प्रदेशादौ धर्मितया त्वया कल्प्यमाने यद् [T. 339a.] घटादिकं नास्तीत्युच्यते लोकेन स एव प्रदेशादिस्तेन घटादिनाऽसंसृष्टस्संसर्गरहितः "अन्यभावो" लिङ्गतयेष्टो नापरः कश्चित् 15 यतः “तद्दर्शनादेव” घटासंसृष्टप्रदेशादिदर्शनादेवास्य प्रतिपत्तुः 'घटो नास्ति' इति विकल्पो लिङ्गिज्ञानतयोपगतो भवति। ततः स एवान्यभावः। यदेव हि दृश्यमानं लिङ्गिज्ञानं जनयति तदेव लिङ्गमुच्यते। घटासंसृष्टश्च प्रदेशादिरेवम् । तस्मात् तदेवान्यभावलक्षणं लिङ्गमुपेयम् । ततः कथं तस्यैवान्यभावस्य व्यावृत्ति-20 तोऽपि भेदमननुभवतो लिङ्गलिङ्गिभावो लिङ्गत्वं लिङ्गित्वं था। नहि लिङ्गमेव धर्मी भवितुमर्हति , धमिप्रतिपत्तावेव साध्यप्रतिपत्तेरन्वयाद्यनुसरणायोगात् । ततश्चान्यस्य धर्मिमणोऽभावात् कथमन्यभावात्मनो लिङ्गस्य तत्सम्बन्धः, समुदायसाध्यता वा। शब्दकृतकत्वयोस्तु परमार्थतस्तादात्म्येऽपि व्यावृत्तिभेदनिबन्ध- 25 नोऽस्त्येव भेदः । ततः शब्दादिधम्मिप्रतिपत्तावप्यनित्यत्वाद्यप्रतीतौ कृतकत्वादिना तत् साध्यत इति युक्तम् । . स्यान्मतम् - सामान्यविशेषकल्पनया [S. 176b.] लिङ्गलिशितैकस्यापि भविष्यतीत्यत आह - " न चात्र " प्रकृतेऽन्यभावे " सामान्यविशेषभावकल्पना सम्भवति", येन [S. 339b.] सामान्यविशे- 30 षविकल्पेन सामान्यं हेतुर्भवेद् विशेषो धर्मी, यतः समुदाय
२४ हे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org