________________
१८४
हेतुषिन्दुटीका। दनयोरुदयात् तथा व्यपदेशः, नैवमिह, अन्यभावतदभावयोस्तदयोगात्। लिङ्गलिङ्गिभावलक्षणस्य [S. 175a.] च साध्यसाधनभावस्य प्रकृतत्वात् , तस्य च सम्बन्धमन्तरेणायोगात् ।
नैव सम्बन्धान्तरनिबन्धनोऽन्यभावतभावयोः साध्यसा5 धनभावोऽपि तु विषयविषयिभावनिमित्त एवेति चेत्, आह -
" अन्यथा " यदि [T. 338a ] सम्बन्धान्तरं नेष्यते किन्तु विषयविषयिभावात् साध्यसाधनभावः तस्माच विषयविषयिभावः, तत इतरेतराश्रयमिदं स्यात् । तथा चैकासिद्धौ द्वयोरप्यसिद्धि
भवेदिति । किश्चान्यभावाच लिङ्गभूतादभावस्य लिङ्गिनः सिद्धा10 वनुमिताविष्यमाणायां अंसमुदायश्च साध्यः स्यात्, अन्यभावेन तदभावस्य केवलस्यैव साधनात् न केवलसम्बन्धाभावात् सा. ध्यसाधनभावायोगः । समुदायश्च विशेषणविशेष्यभावापन्नो धमधमिलक्षणः साध्यो य इष्टस्तभावदोषश्चेति 'च' शब्दः ।
सर्वत्र समुदायस्य साध्यता नैवेष्टेति चेत्, आह - "तथा 15 च" धर्ममात्रस्यापि स्वतन्त्रस्य साध्यतोपगमे 'घटाभावस्तदन्य
भावात् ' इत्येवंरूपे प्रयोगे घटस्य सर्वत्र देशे सर्वदा चाभावः प्रसज्येत। धम्मिणि हि कचिद्धर्मस्य गुणभूतस्य साधने तत्रैव तत्काल एव च भावो युक्तो नान्यदेति सर्वत्र समुदाय एव सा
ध्योऽभ्युपगन्तव्यः न केवलो धर्म इति । 20 अत्राह परः- नासमुदायस्य [S. 175b.] साध्यता अन्यभावत
दभावयोरंसम्बन्धो वा । कुतः ? । “प्रदेशादि" इत्यादि । 'इह प्रदेशे घटो नास्ति' इत्येवं घटाभावेन प्रदेशादिर्धी विशेष्यते सघटात् [T. 338b.] प्रदेशादेर्भेदेनावस्थाप्यत इति तद्विशेषणत्वं प्राप्तः
साध्यते न तु घटो नास्तीत्येवं " केवलो " धमिणः कस्यचिद्गण25 भावमनापन्नः । ततो नासमुदायस्य साध्यतेति कुतस्तद्भावी दोषः । " न च " नैवास्मिन्पक्षे “लिङ्गस्यान्यभावात्मनो “लिङ्गिनश्च” प्रदेशाधिमिलक्षणस्य "असम्बन्धदोषः प्रसज्यते”। कुत ? । " अन्यभावस्य " घटविविक्तप्रदेशादिलक्षणस्य “प्रदेशादिना ” ध. १. °यां अयं (or स) समुदाय: - T. । २. योसं° T.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org