________________
अन्यभावतदभावयोस्संबंधाभावः । दित्यभिसम्बन्धः । किं रूपः १ । “ कार्यकारणलक्षणः " । कथं पुनरर्थकार्यता शब्दस्य ?। तत्प्रतिपादनाभिप्राये सति अर्थप्रतिपादनविवक्षायां सत्यां तत्प्रयोगाच्छन्दोच्चारणात् । तेनार्थेन विवक्षाविपरिवर्तिना शब्दस्य कार्यकारणलक्षणः सम्बन्धः स्यात् । यद्यपि च शब्दार्थयोः बुद्धिपरिकल्पितसामान्यरूपता तथाप्यर्थ- 5 प्रतिभासिन्या विवक्षया शब्दसामान्योत्प्रेक्षानिबन्धनस्य शब्दखलक्षणस्योत्थापनात् तन्मुखेन कार्यकारणभाव उच्यते । " अविनाभावलक्षणो वा " इति परप्रसिद्धयोच्यते । परो ह्यविनाभावलक्षणः शब्दार्थयोः सम्बन्ध इति व्यवहरति । ततः सम्बन्धनिबन्धनः प्रतिपाद्यप्रतिपादकरूपो विषयविषयिभावो युक्तः । तद-10 भावान्यभावयोरप्येवं भविष्यतीति चेत्, आह - "अयं च" अनन्तरोक्तप्रकारः "अत्र" तदभावान्यभावयोः “न सम्भवति" । नहि घटाभावप्रतिपादनाभिप्राये [S 174b] सति अन्यभावस्य प्रदेशलक्षणस्य प्रयोगो निष्पत्तिर्भवति, घटाभावप्रतिपादनाभिप्रायात् प्रागपि प्रदेशस्य स्वहेतुभ्य एव निष्पत्तेः। सत्यपि तदभिप्रायेऽ- 15 न्यभावस्याभावाच । ततश्च कथं तयोः कार्यकारणभावः ?, तद्वारकोऽविनाभावो वा स्यात् ? यतो [T. 337b.] विषयविषयिभावः कल्प्येत ।
स्यान्मतम् - यथा शब्दार्थयोः साध्यसाधनभावनिमित्तो विषयविषयिभावः तथा अन्यभावतभावयोरपि इत्येतावन्मात्रेण 20 शब्दार्थयोदृष्टान्ततेत्यत आह - " सिद्धे हि " इत्यादि । शब्दार्थयोर्हि कार्यकारणभावनिबन्धनः साध्यसाधनभावः अन्यथाऽर्थान्तरत्वे तदयोगात् तथेहापि यदि तदभावान्यभावयोः साध्यसाधनभावः सिध्येत् तदा तन्मुखन साध्यसाधनभावद्वारेण विषयविषयिभावः स्यात् । यावता स एव साध्यसाधनभावोऽसति 25 सम्बन्धे कार्यकारणभावादिके न सिध्यति, सर्वस्य साध्यसाधनताप्रसक्तः। ___ कथमिन्द्रियं खविषयसिद्धिनिबन्धनमिति चेत्, परस्परोपसर्पणाद्याश्रयात् प्रत्ययविशेषादिन्द्रियविषययोरेकविज्ञानोत्पा१. °दकभावरूपो T. । २. प्रयोगात् - T.। ३. °दिके कुतः सि° T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org