________________
१४२
हेतुबिन्दुटीका। गुणा इष्यन्ते । न चायं तेषामन्यतमः । नापि कर्मरूपतयपञ्चसु कर्मस्वनन्तर्भावात् तल्लक्षणविरहाच । "एकद्रव्यम्'' [ वैशे० १. १. १५] इत्यादिकं हि तल्लक्षणम्। न चैतभावे सम्भवतीति । नापि सामान्यादिरूपतया, तद्रूपविरहादेव। नाप्यन्यभावतभावयोः संयो5 गोऽग्निधूमयोरिव , द्रव्ययोरेव तदभ्युपगमात् । न च तदभावो द्रव्यमित्युक्तम् । नाप्याधार(रा)धेयभावो , यतः सोऽपि संयोगनिमित्त उच्यते 'इह कुण्डे बदराणि' इति। समवायनिमित्तो वा, 'इह तन्तुषु [T. 336b.] पट: इति । न चाभावस्याद्रव्यात्मनः संयोगः सेमस्ति । नापि समवायः, पश्चानामेव हि द्रव्यादीनां प10 दार्थानां समवायित्वमिष्यते; न चाभावः पञ्चखन्तर्भवतीति । न च तदात्मानुपकारे सत्याधारव्यपदेशः सम्भवति । उपकारे वा जन्यजनकभावः । न च तदभावो जन्यः, कार्यताप्रसङ्गात् । कायता चास्यासम्भविनी, [S. 173b.] यतः स्वकारणसमवायः, सत्तासमवायो वा कार्यतोच्यते भवद्भिः। अन्यभावस्तु प्रदेशाख्यो15 ऽस्य न कारणम् , त्रयाणामेव हि द्रव्यगुणकर्मणां द्रव्यं कारणमिष्टम् । न चाभावो द्रव्यादिलक्षणः इति । सत्तासमवायेऽपि सत्प्रत्ययविषयता तदभावस्य स्यात्, नाभावप्रत्ययविषयता । प्रदेशाभावेऽपि च घटाभावसम्भवात् कुतस्तत्कार्यता । न चास्य प्रतिविषयं भेदः, एकाकारज्ञानविषयत्वात्। सम्बन्धिभेदादू 20 भेदे वा सामान्यादिष्वपि तत्प्रसङ्गः। समवायोप्यस्यानन्तरमेव निरस्त इति कुतः स्वकारणसत्तासमवायरूपा कार्यता तद्भावस्य स्यात् ? । एतेन जन्यजनकभावः प्रत्युक्तः। ततः स. व्वथा सम्बन्धाभावान्नान्यभावः तदभावस्य साधनमिति । .. परः सम्बन्धान्तरं दर्शयन्नाह - " अस्ति विषयेत्यादि । 25 यथा हि अर्थो विषयः शब्दो विषयीति तयोविषयविषयिभावः
सम्बन्धः, [S. 174a.] एवमन्यभावतदभावयोर्विषयविषयिभावः सम्बन्धो भविष्यति [T. 337a.] प्रदेशाख्येनान्यभावेन घटाभावस्य प्रत्यायनादिति पूर्वपक्षाशङ्का । शब्दार्थयोः सम्बन्धः स्या
१. स्वकर्मस्वानन्तर्भावात् T. | २. समस्त T.। ३. चात्रास T. |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org