________________
अन्यभावतदभावयोस्संबधाभावः । सम्बन्ध एवोदाहरणान्तरम् । अत्रैकर्थसमवाय इति संयोगः स एव समवायशब्देनोक्तः। संयोगसमवाययोः कल्पितत्वाद् भेदेन व्यपदेशेऽनादरात् । परेषां त्वग्निधूमौ खावयवेष्वेव समवेताविति न तयोरेकार्थसमवाय आधाराधेयभावो वेति धूमस्याग्रुपरि दर्शनाल्लौकिकः सम्बन्ध उक्तः। “जन्यजनकभावो वा” इति 5 पारमार्थिक सम्बन्धोऽभिहितः, परमार्थतोऽग्नेर्जनकत्वात् इतरस्य च जन्यत्वादिति।
ननु चेश्वरसेनेन सह विचारः प्रक्रान्तः तत् किमिति नैयायिकाभिमतस्यापि सम्बन्धस्यान्यभावतभावयोरभाव उच्यते। सत्यम् , [S. 172b.] प्रसङ्गेन तु तन्मतस्यापि निषेधार्थमुक्तम् । 10 पूर्व ह्यन्यभावग्राहिप्रत्यक्षसिद्धत्वात् प्रतिषेध्याभावस्य न तदर्थ प्रत्यक्षान्तरं ' नास्तीह घटः ' इत्येवमाकारं कल्पनीयमिति प्रसगतः कथितम् । अधुना तु प्रसङ्गादिदमुच्यते-यदान्यभावग्राहिम त्यक्षसिद्धोऽयं तदभावो न भवति तदा प्रत्यक्षान्तरं ' नास्ति इह घटः' इत्येवमाकारं विशेषणविशेष्यभावलक्षणात् सन्निकर्षा- 15 दिष्टं भवता । न चासति सम्बन्धेऽन्यभावतभावयोविशेषणविशेष्यभावो युक्तः, अतिप्रसङ्गात् । ततः [T. 336a.] कुतस्तलक्षणात् सन्निकर्षात् तदभावे प्रत्यक्षं भवेदिति।
एवं सम्बन्धखरूपमाख्याय तस्येहासम्भवमाह - " नैवम् ", यथा कृतकत्वानित्यत्वयोरग्निधूमयोव्र्वैकार्थसमवायादिलक्षणः स- 20 म्बन्धो नैवं कश्चिद् भावाभावयोः सम्बन्धो येन "अस्य” तदभावस्थान्यभावः साधनं स्यात् । यावेकत्रार्थे धम्मिरूपे प्रवर्त्तते तयोरेकार्थसमवायो भवति । अन्यभावश्च प्रदेशाख्यः खावयवेषु येषु वर्तते न तंत्र घटाभावः । एवं हि प्रदेशावयवेषु घटो नास्तीति स्यात् न प्रदेशे। न चास्य प्रदेशावयवैरारम्भः । ते हि द्रव्या- 25 स्मानो द्रव्यान्तरमेवारभन्ते । न च घटाभावो द्रव्यम् । नवैव हि द्रव्याणीष्यन्ते । न च क्रियावदादिकं द्रव्यलक्षणं [S. 173a.] तत्रास्ति । न च गुणरूपतया तत्र वर्तते। चतुविशतिरेव हि १. सन्निकर्षादीष्टं भवति T.। २. विशेषणविशेष्याभावे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org