________________
हेतु बिन्दुटीका ।
शून्यतया, कथं तस्य प्रसज्यप्रतिषेधात्मता न स्यात् पररूपेण ? | सामर्थ्यात् ततस्तत्प्रतीतिरिति चेत् न, अंकारणप्रतीती सामर्थ्यासम्भवात् । तादात्म्याभावे हि प्रसज्यप्रतिषेधस्य पर्युदस्तात् [S. 171b.] प्रतीतौ तत्कारणत्वे सति स्यात् प्रतिपत्तिः नान्यथा । 5 तस्य तदन्यासंसृष्टरूपस्य यत् तत्त्वं तस्य प्रतिषेध्यतुच्छरूपताया व्यवस्थापकं प्रमाणं प्रत्यक्षरूपम् तत एव न तदुत्तरकालभाविनो [T. 335a.] 'नास्तीह घटः" इति विकल्पात् तस्य गृहीतग्राहितया स्मृतित्वेनाप्रमाणत्वात् अन्यस्य घटादेस्तत्रासतो व्यवच्छेदस्याभावस्य सिद्धेस्तदभावात्मकस्यैव प्रदेशस्य तेन ग्रहणात् । द्विविधो 10 ह्ययं प्रदेशो घटासंसृष्टरूपस्तद्व्यावृत्तरूपतया ततोऽन्यो घटवानपि, केवलश्च घटं प्रति अंप्रतिपन्नाधारभाव: । तस्य तद्विवेकेन प्रत्यक्षेण ग्रहणे घटादन्यत्वं घटविरहश्च गृहीत एव भवतीति न वस्त्वसंकरसिद्ध्यर्थम्, 'इहेदं नास्ति' इत्येवमर्थं च प्रमाणान्तरमन्वेषणीयम् । विस्तरतश्चैतदुत्तरत्र वक्ष्यत इति आस्तां तावत् । यतश्चा15 न्यभावसिडचैव तदभाव उक्तेन न्यायेन सिद्ध्यति ततो नान्यभावः प्रतिषेध्याभावस्य लिङ्गम् ।
"
द्वितीयं कारणं व्याचक्षाण आह (6 सम्बन्धाभावाच्च " इति । अन्यभावतदभावयोर्न [S. 172a.] कश्चित् सम्बन्धोऽस्ति ततः कुतो लिङ्गलिङ्गिभावः ? इति । एतच्च कदोच्यते । यदा तदभाव20 रूपताऽन्यभावस्य पँरानभ्युपगताऽपेक्ष्यते । तदन्यभावात् पृथगेव तद्भावस्तुच्छरूप इष्यते परैः । अन्यथोक्तेन न्यायेनान्यभावस्यैव तदभावरूपत्वे तादात्म्यात् कथं सम्बन्धाभाव: ? । प्रत्यक्षसिद्धता च तंदैव, न पेक्षान्तरेण अभिहिता । " तच्च तस्य" इत्याद्यस्यैव विवरणं व्यतिरेकमुखेन " एकार्थसमवायै " इति [T. 335b,] परद22 र्शनेनोक्तं । परेषां हि नैयायिकादीनां व्यतिरिक्तावेव कृतकानित्यत्वाख्यौ धर्मावेकस्मिन्नेव धर्मिणि समवेताविति कृतकस्यानित्यत्वेनैकस्मिन्नर्थे धर्मिणि समवायः सम्बन्धः धमस्य वेति
<<
"
-
Jain Education International
१. अन्यभावात् । २. प्रसज्यप्रतीतिः । ३. प्रसज्यप्रतीतौ । ४. अन्यभावस्य । २ प्रति प्रतिप - T. । ६. तस्य द्विविधेन - T. । ७ °स्य रूपानभ्यु° T. । ८ तदान्य T. । ९. तादात्म्यपक्षे । १०. तदेव - I. । ११. तादात्म्याभावेन । १२. मुखेन संबन्धः एका T. । १३. वायसंबन्ध इति T. ।
For Private & Personal Use Only
www.jainelibrary.org