________________
प्रसंगात् नैयायिकस्य निरासः। वस्तुनो "न सिद्धिशन प्रतीतिः तबस्तु तस्य वस्तुनो लिङ्गं भवतीत्ययं लिङ्गलिङ्गिनोायः । तत्रोदाहरणम् -" धूमामिवदिति "। यथा - यदा धूमप्रतीतौ नाग्निः प्रतीयते तदा तयोलिङ्गलिङ्गिभावो भवति, न तु धूमप्रतीतिकाल एव प्रतीयमानेऽग्नौ । यदि नामैवं ततः किम् ? इत्यत आह - “ अन्यस्य वस्तुनो यो भावः " खभावः 5 "तत्सिद्ध्यैव” तत्प्रतीत्यैव "तदभावः तस्य [S. 170b.] प्रतिषेध्यस्याभावः " प्रसिध्यति " प्रतीयतेअन्यभावस्यैव तदभावात्मकत्वात् तसिद्धेरेव तत्सिडिलक्षणत्वात् ।
नैयायिकास्तु मन्यन्ते-प्रतिषेध्याभावो हि प्रसज्यप्रतिषेधास्मकस्तुच्छरूपस्तस्य कथं तदन्यभावरूपता ?, भावाभाषयोबि-10 रोधात् । ततः कथं तदन्यभावसिद्ध्यैव तदभावसिद्धिः स्यात् ? इत्यत आह - " तस्य " तदन्यभावस्य प्रदेशलक्षणस्य तस्मादन्येन प्रतिषेध्येन घटादिना " असंसृष्टरूपस्य " रहितात्मनः केवलस्य प्रतिषेध्येन शून्यात्मनः। अनेन केवलप्रदेशस्यापि प्रसज्यप्रतिषेधात्मकतामाह। कथं भावस्य तुच्छरूपता स्वभावः, विरोधात ?, 15 इति चेत्; न , पररूपेण तस्यापि तुच्छरूपत्वात् । [T. 334b.] यथा ह्यनपेक्षितभावान्तरसंसर्गः प्रसज्यप्रतिषेधः शून्यविकल्पप्रतिभासी प्रतिषेध्येन तुच्छरूपः तद्रूपविरहात्, तथा तदन्यभावोऽपि प्रतिषेध्यासंसृष्टरूपः। ततः कथमस्य प्रतिषेध्येन तुच्छरूपता [S. 171a.] विरुध्येत ?। स्वरूपेण ह्ययमतुच्छरूपः स्यान्न 20 पररूपेण, अन्यथा कथमस्यान्यभावत्वं परस्य वा तत्राभावः स्यात् । यो हि यदभावरूपो न भवति स एवासौ भवति, तत्वरूपवत् । ततः सर्वस्य जगतः परस्परात्मताप्रसङ्गः। तस्मात् सर्वभावाः पररूपेण निःस्वभावाः स्वरूपेण रूपवत्त्वेऽपीत्यनवद्यम् ।
25 ___ कस्तर्हि प्रसज्यप्रतिषेधात्पर्युदासस्य भेदः १ । न कश्चित् , केवलमनपेक्षितरूपान्तरमभावमात्रं प्रसज्यप्रतिषेध इति लोके कथ्यते । रूपान्तरं तु पररूपशन्यं पर्युदास इति। न तु रूपान्तरं पररूपतुच्छात्मकं न भवति । अनुभूयत एव च रूपान्तरं तद्रूप१. हि यस्तुच्छ - T,।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org