SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ हेतुबिन्दुटीका। पलब्धित्वेन भवतोऽभिमतः स्वयं स्वरूपेण प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धः संस्तस्य [S. 169b.] प्रतिषेध्यस्थाभावव्यवहारं ज्ञानाभिधानप्रवृत्तिलक्षणं साधयेत् “ तसिद्धिसिद्धो" वा तस्यान्यभावलक्षणस्याभावस्य यथोक्तस्य सिद्धया 5 सिडो वा तभावस्तस्य प्रतिषेध्यस्य तज्ज्ञानस्य वाऽभाव इति एवमपीष्यमाणे “ न कश्चिद् विशेषः " त्वदर्भिमतानुपलब्धितोऽस्मदभिमतानुपलब्धेः [T. 333b.] ततोऽस्मदर्शनं किमिति प्रतिक्षिप्यते ?। नन्वस्त्येवैवमिष्यमाणे विशेषोऽन्यभावलक्षणानुपलब्धिरितरया व्यवहिता तदभावव्यवहारं साधयेदितरा तु सा10 क्षादित्याह - स विशेषो नास्ति येन विशेषेणानुपलब्ध्याऽभावरूपया वस्तुसंस्पर्शरहितयाऽस्मदभिमतयाऽभावव्यवहारसिद्धेः विरोधः स्यात् । अन्यस्य तु विशेषस्य सतोऽप्यबाधकत्वादसत्समत्वमेव। यदप्युक्तं-'तस्य साधनाभावादभावव्यवहारासिडिप्र सङ्गः' इति , तदप्यसत्, यतः स एव त्वदभिमतोऽन्यभावः प्रति15 षेध्यविविक्तभूतलात्मकस्तद्विषया चोपलब्धिरनुपलब्धित्वेनेष्टा भवतस्तभावस्यानुपलब्धित्वेनास्मन्मतस्य प्रतिषेध्याभावस्य तदुपलब्ध्यभावस्य च " किं" कस्मात् " न साधनं " लिङ्गम् "इष्यते ? "। तथा हि सति लोकप्रतीतिरनुसता भवति। " किं पुनः" कस्मात् पुनः “ अभावस्य " द्विविधस्य "सिद्धिरेव तदभावसिद्धिः” न त20 साध्या काचिदन्या [S. 170a.] विद्यत इत्यस्मन्मतनिषेधार्थ लोकातिकान्तमिष्यत इति पूर्वपक्षः।। अत्राह - “ अपृथक्सिद्धेरन्यभावात् " तदभावस्य पृथक्सिद्धेरभावात् कुतो लिङ्गलिङ्गिता। तथा “सम्बन्धाभावाच” अन्यभावतभावयोन लिङ्गलिङ्गितेति । प्रथमं तावत् कारणं [T. 334u.] विवृण्व25 नाह - " अन्यभावस्तद्विविक्तप्रदेशात्मकस्तावन्न साधनं " लिङ्गं प्रतिषेध्या भावस्य, 'तदुपलब्धिरपि तदभावस्य न साधनम् ' इति पश्चाद् व. क्ष्यते । तदर्थमेव तावच्छब्दः। कस्मादन्यभावो न साधनम् ? इत्याह - “ यत्सिद्धौ ” यस्य वस्तुनः सिद्धौ प्रतीतौ “यस्य” अपरस्य १. प्रत्यभिज्ञानस्य T.। २. घटाभावरूपया घटाज्ञानभावाख्यया वा (प्रथम टिपन) उपलब्ध्यऽभावरूपया (द्वि. टि.)। ३. पृ. १७६ पं. ११. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy