________________
ईश्वरसेनस्य पूर्वपक्षः एवम् “इति” तस्माद् "अन्यभावोऽपि” अन्यस्य वस्तुनो भावोऽपि त्वद्भिमतो भावांशोऽपि न केवलमभावांशस्त्वन्मत्याऽभाव इति व्यपदिश्यतेऽस्माभिः । ततो भावांशस्याभावरूपता सङ्गत्तैवेति न किचिदू विरुध्यत इति ।
यदुक्तं ज्ञातृ-ज्ञेयधर्मलक्षणया स्वभावानुपलब्ध्या अभाव- 5 व्यवहार एव साध्यते नाभावः' इति तत् परो विघटयितुं, यचोक्तं ' ने प्रतिषेधमात्रमनुपलब्धिः , तस्य साधनासिद्धेः ' इति द्वितीये व्याख्याने प्रतिषेधमात्रस्यानुपलब्धि[रि]त्येतस्य' साधनं दर्शयितुमाह - " अन्यभावलक्षण " इत्यादि । एवं मन्यते - लोको हि केवलप्रदेशदर्शनात् घटाभावमेव प्रथमं 10 प्रतिपद्यते केवलप्रदेशज्ञानसंवेदनद्वारेण घटज्ञानाभावप्रतिपत्त्या वा ततो घटाभावस्य व्यवहारम् । तेन लोकप्रतीत्यनुसारेण प्रतिषेध्यादन्यस्य प्रदेशस्य प्रतिषेध्यज्ञानावा तज्ज्ञानस्य यो भावस्तलक्षणोऽभावः स्वयं प्रमाणेनेन्द्रियप्रत्यक्षेण वसंवेदनप्रत्यक्षेण च सिद्धोऽलं [S. 169a.] घटाभावं साक्षात् पारम्पर्येण च यथाक्रमं 15 साधयितुम् , स च घटाभावव्यवहारमित्येवं व्यवस्थापयितुं युक्तम् । न चैवमपि व्यवस्थापने [अस्मत्पक्षस्य काचित् क्षतिः । तथाहि - पारम्पर्येणापि यदनुपलब्धेः त्वदभ्युपगतायाः सिद्धं तत् तत एव सिद्धं भवतीति [T. 333a.] प्रतिषेधमात्रस्यानुपलधित्वे तत्साधनप्रतिपादनेऽपि । अयमभिप्रायः-यथा भवतो ज्ञा- 20 तृ-ज्ञेयधर्मलक्षणा भावरूपा द्विविधाऽनुपलब्धिस्तथा ममापि ज्ञातृ-ज्ञेयधर्मलक्षणोपलब्ध्यभावोऽप्यनुपलब्धिसंज्ञितो द्विविधो भविष्यति । तत्र ज्ञेयधर्मलक्षणेनान्यभावेन प्रत्यक्षसिद्धेन प्रतिषेध्याभावो ज्ञेयधर्मलक्षणोपलब्ध्यभावरूपोऽनुपलब्धिसंज्ञितः सेत्स्यति । ज्ञातृधर्मलक्षणेन चान्यभावेन केवलप्रदेशज्ञानात्मना 25 खसंवेदनसिद्धेन ज्ञातृधर्मः प्रतिषेध्यज्ञानाभावरूपोऽनुपलब्धिसमाख्यातः सेत्स्यति। ततश्च कुतोऽनवस्था येन साधनासिंडि: स्यादिति । तंत्र "अन्यभावलक्षण” इति प्रतिषेध्यात् तज्ज्ञानाच योऽन्यो भावः प्रतिषेध्यविविक्तः प्रदेशः तज्ज्ञानं च तदात्मकोऽभाव: विवक्षिताद् भावात् प्रतिषेध्या भावात् तज्ज्ञानाचान्यत्वादनु- 30
१. पृ. १७४ पं. २७. २. पृ. १७६ पं. ४. ३. पृ. १७६ पं. ११. ४. °स्यासा' T.। १. अतो ग्रन्थव्याख्या। २३ हे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org