________________
हेतुबिन्दुटीका। वस्तुभूतव प्रदेशस्य साध्यत इति न स्वभावहेतोः स्वभावानुपलन्धिर्भिद्यत इति।
यत्तु 'अनपेक्षितार्थान्तरसंसर्गप्रतिषेधमात्रमनुपलब्धि इतीश्वरसेनो मन्यते तन्निराकुर्खन्नाह - " न प्रतिषेधमात्रम् ” इत्यादि । 5 कस्मात् ? इत्याह – “ तस्य साधनासिद्धेः” इत्यादि । [T. 332a.] न
ह्यभावस्य सर्वसामर्थ्यविरहलक्षणस्य साधनत्वं सिद्धिहेतुत्वं सिध्यति , सर्वसामर्थ्य विरहरूपस्य तंदद्योगात् । हेतुत्वे वा कथं न सामर्थ्ययोगिता ? भावरूपता वा ?, सामर्थ्यलक्षणत्वाद् वस्तुनः। अभावस्य [S. 168a.] चानपेक्षितसहकारिणो अनाधेया10 तिशयतया नास्तीति ज्ञानजनने नित्यं तज्जननप्रसङ्गः। ततश्च
साधकत्वायोगाभावव्यवहार एव न सिध्येत् । अथवा तस्य प्रसज्यप्रतिषेधात्मन उपलब्ध्यभावस्य साधनमेव किश्चिन्न सिध्यतीति । स ह्यभावत्वादपरेणोपलब्ध्यभावेन साध्यः स्यात्,
सोऽप्यपरेणेत्यनवस्थानम् । न चेन्द्रियवदज्ञातस्य प्रतिषेधज्ञान15 हेतुता, सदा सन्निहितत्वेनानपेक्षितसहकारिणो नित्यं तदुदयप्रसङ्गात् । इदं चार्थद्वयं 'कथमभावः कस्यचित् प्रतिपत्तिः, प्रतिपत्तिहेतुर्वा ? । तस्यापि कथं प्रतिपत्तिः' इत्यत्रान्तरे स्वयमेव विपञ्चयिष्यति।
कुमारिलस्याप्युत्तरमाह - "तस्य" अन्यस्य प्रतियोगिना वस्त्व20 न्तरेणासंसृष्टरूपस्य । न ह्यसौ वस्त्वन्तरैः संसृष्टस्वभाव एकरूपः। तथात्वे ह्यभावांशोऽपि न कचित् सिध्येत् । तस्यैवंविधस्य " भावसिद्धिरेव " भावांशसिद्धिरेव "अपरस्य” प्रतियोगिनो वस्त्वन्तरस्याभावसिद्धिरभावांशस्य त्वदभिमतस्य सिद्धिरस्तु भावांशस्यैवाभावांशरूपतोपपत्तेरिति मन्यते। तथा हि - अभा25 वांशोऽपि पररूपासंसृष्टतयैवाभाव इति व्यपदिश्यते, अन्यथा [S. 168b.] तदयोगात् । सा च भावांशस्यापि समानेति स एवाभावोऽस्तु तन्निमित्तस्य समानत्वात् किमन्येनाभावांशोपगतेन ?। अत [T. 332b.] एवासंसृष्टरूपस्येति विशेषणम् । यत १. ब्धिर्वेद्यते T.। २. शेतुत्वा । ३. °त्रान्तरे ग्रन्थे स्वयमेवाचार्यों विप° T.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org