________________
ईश्वरसेन-कुमारिलयोराशेपस्य समाधानम् । अत्रेश्वरसेन-कुमारिलयोर्वचनावकाशमाशङ्कय सिद्धान्तव्यवस्थामेव कुवता तन्मते निरस्तेऽप्याहत्य तन्मतनिरासार्थमाह - " कथमन्यभाव" इत्यादि । ईश्वरसेनो हि मन्यते - काप-खभावहेतुभ्यां भावरूपाभ्यां अनुपलब्धेः पृथकरणादवश्यमभावरूपत्वमस्याः, अन्यथा पृथक्करणमनर्थकमेव स्यात् । त्वया 5 [S. 167a.] चान्यस्य प्रतिषेध्यविविक्तस्य प्रदेशादेस्तज्ज्ञानस्य वा भावरूपानुपलब्धिराख्यायते तन्नूनमन्यभावस्तभावो येनैवमभिधीयते । न चैतद् युज्यते, भावाभावयोर्विरोधादेकात्मतानुपपतेरिति ।
कुमारिलोऽप्येवं मन्यते - येयं ज्ञात-ज्ञेयधर्मलक्षणा द्विधाs-10 नुपलब्धिरभावरूपा त्वयोच्यते तस्या भवतु नास्तिताज्ञानं प्रति साधनभावः। किन्तु स एवान्यस्य प्रतिषेध्यविविक्तस्य वस्तुनः [T. 331b.] प्रतिषेध्यज्ञानादन्यस्य वा तज्ज्ञानस्य यो भावो भावांशः स कथमभावः ? प्रतिषेध्यस्य तज्ज्ञानस्य वा कथमभावांशः?। नैव युज्यते, धर्मरूपतया भावाभावांशयोर्भेदात् । 15 सत्यपि धर्मिमरूपेणाभेदे तयोश्वोद्भवाभिभवाभ्यां ग्रहणाग्रहणव्यवस्थेति । यदाह -
"धर्मयोमेद इष्टो हि धर्म्यभेदेऽपि नः स्थिते । .. उद्भवाभिभवारमत्वाद् ग्रहणं चावतिष्ठते ॥" [श्लोक० अभाव० २०] इति।
उक्तोत्तरतामस्य दर्शयन्नाह - “उक्तमुत्तरमत्र" चोये यथा “प- 20 युवासवृत्या अपेक्षातः "। 'प्रतिषेध्यं तज्ज्ञानं वा अपेक्ष्य तद्धिविक्तोऽर्थस्तज्ज्ञानं [S. 167b.] वाऽभावोऽनुपलब्धियोच्यते' इति ईश्वरलेनस्य प्रतिवचनम् । न हि प्रसज्यप्रतिषेध एवैको नर्थ: किन्तु पर्युदासोऽपि । ततोऽन्यभावस्थामावरूपता न विरुध्यते, प्रसज्यप्रतिषेधरूपताऽप्यन्यभावस्य यथा तथोत्तरत्र वक्ष्यते । स्व- 25 भावहेतोस्त्वनुलब्धेः पृथकरणं प्रतिपत्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहेतो वस्तुप्रतिपयध्यवसायी। अनुपलब्धौ स्वभावप्रतिपस्यध्यवसायी । परमार्थतस्तु प्रतिषेध्याभावव्यवहारयोग्यता
-
१. चकारावग्रहणंच।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org