________________
१४४
हेतुबिन्दुटीका। " प्रत्यासतेराश्रयणात् , " एकज्ञानसंसर्गलक्षणा प्रत्याससिराश्रीयते माऽन्या , प्रमाणचिन्ताधिकारात् अन्यथाऽनुपलब्धिरनैकान्तिक्येव स्यात् । तस्मात् तत्त्वचिन्तकैस्तथाविधमन्यत्वमाश्रयणीयम् यदनुपलब्धेरव्यभिचारनिबन्धनम् । तच यथोक्तमेवे5 त्यभिप्रायः।
तदेवमेकज्ञानसंसर्गापेक्षयाऽन्यरथं प्रतिपाद्यानुपलब्धि दर्शबन्नाह - " स केवलः " इत्यादि । स एव यदा केवल: प्रदेशो - थोक्तघटापेक्षया तस्मादन्य उच्यते [S. 166a.] तदा घटविविक्तप्रदेशज्ञानं [T. 350b.] वाऽनुपलब्धिः , न तु यथेश्वरसेनो मन्यते उ10 पलब्ध्यभावमात्रमनुपलब्धिरिति, वक्ष्यमाणदोषातघटविकि
तप्रदेशस्वभावो वा, न तु तरिविक्तज्ञानमेव यथाह कुमारिल: "विधान वान्यवस्तुनि ” [श्लोक• अभाव० ११] इति । यथा ह्यन्यवस्तुविषयं ज्ञानमनुभूयमानं प्रतियोगिस्मरणापेक्षं तदभावव्यवहारनिबन्धनं
तथा तद्विविक्तः प्रदेशोऽपि। तथाहि - कस्यचित् प्रतिपत्तुः ‘यतः 15 केवलप्रदेशाकारमेव ज्ञानं मया संवेद्यते न तु घटाकारमपि तस्मादत्र घटो नास्ति' इति एवं नास्तिताज्ञाममुत्पद्यते; कस्यचित् तु
यतः केवलः प्रदेशोऽयं दृश्यते न तु घटसहितः तस्मानास्त्यत्र घटः' इत्येवम् । तस्मादुभयोनास्तिताज्ञानजन्मनि तुल्यं सामर्थ्यमिति क्योरपि अनुपलब्धिव्यवस्था बुत्तेति । तत्र यदा तज्ज्ञानं 20 तदा ज्ञातृधर्मलक्षणाऽनुपलब्धिः कर्तृस्थक्रियाऽपेक्षया, यदा तस्वभावस्तदा ज्ञेयधर्मलक्षणा कर्मस्थक्रियापेक्षयेति ।
एवमनुपलब्धि [S. 166b.] पर्युदासवृत्त्या व्यवस्थाप्य साध्यमस्या दर्शयन्नाह - " सा अभावम् ” इत्यादि । सर्वान्योपलब्धि
लक्षणनाप्सविविक्तेऽपि [T. 331a.] प्रदेशादी दृश्यमाने यत्र घ25 टादी प्रतियोगिन्यर्थित्वादिभिः स्मृतिरस्य भवति तस्याभावं साधयति, अभावव्यवहारं वा । कारणव्यापकानुपलब्धी अभाषमभावव्यवहारं च साधयतः। खभावानुपलब्धिस्तु अभावव्यावहारमेव । अभाषव्यवहारश्च ज्ञानाभिधानप्रवृत्तिलक्षणः। तत्र 'नास्त्यत्र घटः' इत्येवमाकारं ज्ञानम्, एवंविधवस्त्वभिधायकं चा30 भिधानं, निःशङ्कस्य च तत्र प्रदेशे गमनागमनलक्षणा प्रवृत्तिरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org