________________
एकज्ञानसंसर्गस्य व्याख्या । हेण भ्रान्तिकल्पनानुपपत्तेः, [T. 329b.] सर्वत्र तथाभावप्रसङ्गात् । करणधर्म एवायं यदेकस्मिन्नेव कर्मणि क्रियां निष्पादयति नानेकत्र, करणं चेन्द्रियं ततो नानेकप्रतिपत्तिहेतुरिति चेत्, कथं प्रदीपादिरनेकत्र बहूनां प्रतिपत्तिजनकः ?। कर्तृभेदादोष इति चेत् ; कत्रैकत्वात् तर्हि क्रियैकत्र कर्मणीति कथं करणधर्म: 5 इत्यादि वचो न प्लवते ? । न च प्रतिक्षणविशरारुषु भावेषु परमार्थतः कर्तृकरणादिभावो [S. 165a.] युक्तः क्रिया वा काचित् । न च सर्वकारकान्वयव्यतिरेकानुविधायिनि कार्ये कस्यचिदतिशयोऽस्ति येनायं कर्ता का(कारणं चेदमित्यादि परिकल्प्येत । तस्मादविशिष्टयोग्यतयोः कुत एकरूपनियतायाः प्रतिपत्तेः स- 10 म्भवः ? इति सिद्ध एकज्ञानसंसर्गः । तुल्ययोग्यतारूपत्वस्य चैतदेव लिङ्गम् । न ह्यसति तुल्ययोग्यतारूपत्वे युगपदेकेन्द्रियजनितज्ञानप्रतिभासिता रूपरसवत् सम्भवतीति । .
तत्र येषां सौगतानामिदं दर्शनं एकायतनसङहीतेऽनेकत्राप्येकमेवेन्द्रियज्ञानमाजायते' इति तेषां मुख्य एवैकज्ञानसंसर्गः। 15 ये तु तत्रापि प्रत्यर्थ भिन्नान्येवैकेन्द्रियनिमित्तान्येककालानि तद्विषयाणां युगपत्सन्निहितानां स्वज्ञानेषु सामर्थ्याविशेषात् , अंत एवैकतया लोकेऽध्यवसीयमानानि ज्ञानान्युपजायन्ते' इति वपर्णयन्ति [T. 330a.] तेषामेकेन्द्रियजत्वेनैकायतनविषयत्वेन चैककालेष्वेकत्वव्यपदेशो लोके तथाध्यवसायादौपचारिकः। 20 . यदि नामैकज्ञानसंसर्गात् तत्संसृष्टस्तथापि[S. 165b.] सामान्येन सर्वमन्यमयं नञ् किन्न प्रतिपादयति ? इति, अत आह - " तस्मात् " इत्यादि । यस्मादविशिष्टत्वाद्योग्यताया यथोक्तेन प्रकारेणैकत्र ज्ञाने छयोरपि संसर्गः तस्मादविशिष्टं योग्यतारूपं ययोः तत एवैकज्ञानसंसरिंगणौ तौ तस्मात् तयोरेवंरूपयो: “पर- 25 स्परापेक्षमेव "न सर्वान्यपदार्थापेक्षम् " अन्यत्वमिह " अनुपलब्ध्यधिकारे " अभिप्रेतम्"।लोके तु यद्यप्यशेषपदार्थान्तरापेक्षमन्यत्वं नना कचिदुच्यते व्याप्तिन्यायसमाश्रयात्, तथापि तदिह न गृह्यते, १. एकज्ञानसंसगित्वम् । २. एककालत्वादेव । ३. व्यवहारः लोके T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org