________________
.' हेतुबिन्दुटीका। स्वविषयज्ञानजननयोग्याद् योऽन्य उपलम्भजननयोग्य एव न तद्विपरीतः स्वभावो घटविविक्तप्रदेशरूपः स एव चात्रानुपलब्धिशब्देनोच्यते । प्राक्तनमेव न्यायमत्रांदिशन्नाह - “पूर्ववदिति ।" विवक्षितोपलब्धेरन्यत्वादभक्ष्यास्पर्शनीयवत् पर्युदासवृत्त्येति । 5 कथं पुनरयं न अन्यार्थवृत्तिः सामान्यशब्दः सन् घटविविक्तप्रदेशस्य [S. 164a.] तज्ज्ञानस्यैव वा घटविविक्तस्यानुपलब्धित्वं पर्युदासवृत्त्या प्रकल्पयति, न पुनरविशेषेण सर्वेषामेवान्यशब्दवाच्यानाम् ? इत्यत आह - " यत्र यस्मिन् ” इत्यादि।
“यत्र” देशे कालेऽवस्थायां वाऽव्यवधानादिलक्षणायाम, " यस्मिन् " 10 प्रदेशरूपादौ “ उपलभ्यमाने नियमेन " अवश्यंतया “यस्यान्यस्य"
पदार्थस्य घटरूपादेरुपलब्धिर्भवति “स" घटरूपादिः पदार्थः "तत्संसृष्ट" तेन प्रदेशरूपादिना संसृष्टः । कथमेकस्मिन्नुपलभ्यमाने परस्यापि नियमोपलब्धिः ? इति चेत्, योग्यताया अविशेषात् । [T. 329a.] प्रदेशघटयोर्हि स्वविषयविज्ञानजनने योग्यता तुल्या। 15 यदा हि प्रदेशरूपं व्यवधानविप्रकर्षादिरहितं विज्ञाने स्वाकारं
समर्पयति तदा घटरूपमपि तंत्र तथाविधं स्वाकारं समर्पयत्येव । यदि नाम योग्यता तस्य तेन तुल्या स्वस्वभावव्यवस्थितेस्तु कथं तत्संसृष्टता ? इत्यत आह - “ एकज्ञानसंसर्गादिशति । एकत्र हि ज्ञाने द्वावपि तौ स्वाकारद्वारेण संसृष्टी न साक्षात्, 20 तद्विज्ञानं पदार्थद्वयाकारमाजायमानं तयोरात्मनि संसर्ग दर्शयति । किमिति पुनस्तत् ज्ञानं पदार्थद्वयाकारमवश्यं [S. 164b.] भवति यतस्तयोानद्वारकः संसर्गः ? इत्यत आह - "तयोः सतो" इत्यादि । यावेतौ तुल्ययोग्यतारूपौ तौ यदि सन्तौ भवतस्तदा नैवैकाकारनियता प्रतिपत्तिर्भवति । कस्मात् ? असम्भवात् । न 25 ह्येष सम्भवोऽस्ति-यत्तुल्ययोग्यतारूपयोरेक एव प्रतिभासेत ना
पर इति । तथाहि - अविशिष्टत्वाद् योग्यतायाः कस्तत्र स्वा. कारं न समर्पयेत् ? । अनुभवसिद्धं च युगपदनेकप्रतिभासनम्। न चानुभवविरुद्धमाचक्षाणा विदुषामवधेयवचसो भवन्ति । ल. घुवृत्तित्वाद् योगपद्याभिमान इति चेत् ; न, बाधकप्रत्ययविर१. विषयविज्ञान - T. । २. 'त्रातिदिश° - T. । ३. वा प्रदेशस्य घट° T. । ४. ज्ञाने।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org