________________
क्षेयधर्मलक्षणाया अनुपलब्धेर्घाख्या। तबदुपलब्धिरेवानुपलब्धिर्मन्तव्या। नञः प्रतिषेधविषयत्वात् कथं भावविषयता ? इति चेत्, आह - “ पर्युदासवृत्त्येति " । पर्युदासेन प्रतिषेध्यस्यार्थस्य वर्जनेन या विशिष्टेऽर्थे वृत्तिस्तया, नत्रआ. गृहीतप्रतिषेधस्य भावविषयता। यत्र विधेः [S. 163a.] प्राधान्य प्रतिषेधोऽर्थगृहीतः विधिभास्वपदेन नोच्यते एकवाक्यता च 5 तत्र पर्युदासवृत्तिता। विधेश्च प्राधान्यं विवक्षितोपलब्धेरन्योपलब्धिर्भवति इत्येवं वाक्येनान्योपलब्धेविधानात्[T. 328a.]अन्योपलब्धिसामर्थ्यादेव विवक्षितोपलब्धेः प्रतिषेधः प्रतीयते । विवक्षितोपलब्धेरनिवर्त्तने तदपेक्षयाऽन्यस्या विधानायोगात् स्वपदेन नत्रा विधिमाङ् नोच्यते । किं तर्हि । अन्यशब्देन पर्युदासाश्रये 10 गाऽन्यशब्दस्यैव वाक्ये प्रयोगात् अन्या उपलब्धिरनुपलब्धिरिति । नव सुबन्तेन सामर्थ्य न तिङन्तेन इत्येकवाक्यत्वं 'न उपलब्धिरनुपलब्धिः' इति । प्रसज्यप्रतिषेधः पुनरेतद्विपरीतो मन्तव्यः । तत्र हि प्रतिषेधस्य प्राधान्यं विधिरादु गम्यते वाक्यभेदः स्वपदेन नत्रा प्रतिषेधभाक् सम्बध्यते ।
15 तदेवं ज्ञातृधर्मलक्षणामनुपलब्धि व्याख्याय ज्ञेयधर्मलभणां प्रतिपादयन्नाह - “ उपलभ्यमानधर्मत्वे " इत्यादि । यदा कर्मस्थक्रियापेक्षयोपलभ्यमानस्य वस्तुनो धर्म उपलब्धिविवक्ष्यते तदा विषयस्वभाव उपलब्धिमन्तव्या। कीदृशो [S. 163b.] विषयस्वभावः ? इत्याह - " स्वविषयेत्यादि । प्रतिषेध्यस्य घटादे- 20 यंदात्मविषयं विज्ञानं तज्जनने या योग्यता तल्लक्षणो विषयस्वभाव उपलब्धिशब्देनोच्यते । यदि विषयस्वभाव उपलब्धिः, कथं योग्यतालक्षणः । तथा हि योग्यता धर्मः, धर्मधर्मिमणोश्च भेद एव इत्यत आह - " योग्यतायाः " इत्यादि । योग्यता हि परमा
तो [T. 328b.] भावरूपैव न वस्तुस्वरूपाद् भिद्यते, अन्यथा 25 भावो योग्य एव न स्यात् । योग्यताऽस्थेति च सम्बन्धाभावतो न स्यात् । सम्बन्धकल्पनाथामनवस्थेत्युक्तप्रायम् ।
तदेवमुपलब्धेविषयधर्मतां प्रतिपाद्यानुपलब्धेरपि प्रतिपादयवाह - " तस्मादन्यः" इत्यादि । “ तस्मात् " प्रतिषेध्याद् घटादेः १. भगृहीत° T.। ...
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org