________________
हेतु बिन्दुठीका ।
चेन्द्रियादेरन्यस्य जनकत्वं [S. 1622.] सम्भवति यतोऽन्वयव्यतिरेकनिबन्धन: कार्यकारणभावव्यवहारः, तौ चान्वयव्यतिरेकी नेन्द्रि यादेरन्यस्य सम्भवतः सत्स्विन्द्रियादिषु नियमेनोपलब्धेर्भावात् । यदि हीन्द्रियादिषु सत्स्वपि कदाचिदुपलब्धिर्नोपजायते तदा स - 5 स्वप्यन्येषु सकलेषु हेतुषु कार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयतीति तद्व्यतिरिक्तकारणान्तरं परिकल्प्येत । न चैतदस्ति, तत् कथमात्मनस्तदुत्पत्ती निमित्तं भावोऽभ्युपगम्येत ? अतिप्रसङ्गात् ।
१७०
यदाह
10
66 यस्मिन् सति भवत्येव यत् ततोऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्व्वत्र हेतूनाममवस्थितिः ॥ " [प्रभाणवा० १. २६] इति । आश्रयत्वमपि जनकस्यैवेति तदप्यात्मनो न सम्भवति । स्थापकत्वादाय इति चेत् न, क्षणिकत्वे स्थितेरभावादुपलब्धेरक्षणिकत्वेऽपि स्वयमेवाविनाशादवस्थानात् । तथाहि - उपलब्धेरविनाश एव स्थितिरुच्यते न पाताभाव: [T. 327b.] तस्या 15 गुरुत्वाभावात् “ संयोगाभावेन गुरुत्वात् पतनम् " [ वैशे० ५. १.७ ] इति च परेषां कृतान्तः । संमवायादाश्रय इति चेत् नमु सोऽपि आधार्याधारभूतानामेवेष्यते। न चापतनधर्मिकाया उपलब्धेराधारेण किंचित्, [S. 162b.] समवायाच्चाश्रयत्वेऽन्यस्यापि तद्भावप्रसङ्गः, तस्य सब्र्वात्मसु समानत्वात्, एकत्वेनास्योपगमात् । क्रमयोग20 पद्याभ्यामर्थक्रियाविरोधाच्च नास्यात्मनः सत्त्वम्, ततोऽस्य कुतो जनकत्वम् ? आश्रयत्वं वा ? इत्यलं क्षुण्णक्षोदीकरणेनेति ।
-
एवमुपलब्धिमादर्यानुपलब्धिमादर्शयन्नाह - " तस्मादुपलब्धिज्ञानादन्या " वस्त्वन्तर विषया “ उपलब्धिः " ज्ञानात्मिका "अनुपलब्धिः” । कथं पुनरुपलब्धिरेवानुपलब्धिरुच्यते ? इत्याह - " विव25 क्षितेत्यादि । यथा भक्ष्याभक्ष्यप्रकरणे विवक्षिताद् भक्ष्यादन्यत्वाद् 'अभक्ष्यो ग्राम्यकुक्कुट :- भक्ष्योऽपि सन् तदन्यस्य - उच्यते । यथा च स्पर्शनीयास्पर्शनीयाधिकारे विवक्षितात् स्पर्शनीयादन्यत्वाद् 'अस्पर्शनीयश्चाण्डालादि : - तदन्यस्य स्पर्शनीयोऽपि सन् - उच्यते । १. निमित्ताभावो T. । २. येषु सत्सु भवत्येव यत्तेभ्योऽन्य' - प्रमाणवा० ३. संयोगादा T
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org