________________
मातृधर्मलक्षणाया अनुपलब्धेाख्या । धारभावं महत्त्वादिगुणप्रतिबन्धादाधारतां यायात् । न चाजनक आधारः । जनकत्वे च [T. 326b.] क्षणिकता, अर्थक्रियाविरोधादक्षणिकस्य । ततः कुतः समवायिकारणस्य सम्भवः ?, यतः स्वोस्कलितं कार्य जनयत् तथा व्यपदिश्यते । न चैतत् क्षणिकत्वे सम्भवति अक्षणिकत्वे वा प्रागऽनाधारस्य पश्चादाधाराभावः। 5 समवायिकारणासम्भवादेवानेकद्रव्यवत्त्वमप्यसम्भवि यस्मादनकं द्रव्यमारम्भकं समवायिकारणात्मना यस्य विद्यते तदेवं व्यपदिश्यते । द्रव्याभावाच नानेकद्रव्यवत्त्वं । सत्त्वेऽपि महत्त्वादेनेयमुपलब्धिलक्षणप्राप्तिरस्माकमभिमता। या' त्वभिमा(म)ता न तयोपलब्धिलक्षणप्राप्तस्यानुपलब्धिरसयवहारसिद्धावनैकान्ति- 10 कीति शास्त्रकारो दर्शयाम्बभूव [S. 161b.] “ उपलब्धिलक्षणप्राप्तस्य " या " अनुपलब्धिः” कारणस्य व्यापकस्य वा प्रतिषेध्यादन्यस्य सा " अभावहेतुः " कार्यस्य व्याप्यस्य च " अभावव्यवहारहेतुश्च” । या तु प्रतिषेध्यस्यैवोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः साऽभावव्यवहारहेतुरेवेति वाशब्देन दर्शयति । या त्वनुपलब्धिलक्षणप्राप्तस्यानु-15 पलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा सा संशयहेतुः प्रमाणनिवृत्तावप्यर्थाभावासिद्धेः, निमित्ताभावात्तु सयवहारप्रतिषेधहेतुरित्यवगन्तव्यम् ।
[$ २. स्वेष्टामनुपलब्धि स्पष्टयितुमीश्वरसेनकुमारिलादीनां निरासः।].
तत्र ये तावदुपलब्ध्यभावमात्रमनुपलब्धिमिच्छन्ति, 20 "विज्ञानं वाऽन्यवस्तुनि” [ श्लोक० अभाव० ११ ] इति वचनात् तदन्यवस्तुविज्ञानमेव वा, तन्निरासार्थ [T. 327a.] ज्ञातृ-ज्ञेयधर्मलक्षणामनुपलब्धि दर्शयितुमुपलब्धिमेव तावविविधाम्दर्शयन्नाह - “अत्र" अनुपलब्धिवाक्ये योपलब्धिः श्रूयते क्रियारूपा सा यदा कर्तृस्थत. याऽपेक्ष्यते तदा तस्या “उपलभमानस्य” कतुः "धर्मत्वे” अपेक्ष्यमाणे 25 "तज्ज्ञानम्। उपलभमानस्य यज्ज्ञानं तद् उपलब्धिरुच्यते। उपलभमा. नश्च बुद्धीन्द्रियदेहकलाप एव च पूर्वक्षणसङ्गहीत उपलब्धिजनक उच्यते । तथाहि - उपलब्धेर्जनक आश्रयो वा कर्ता परैरुच्यते।न १. °भिमता भवतामप्यभिमता न T. । २. पूर्वक्षणेनैक्येनाध्यवसीयमानः ।
२२ हे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org