________________
१६८
हेतुबिन्दुटीका। व्याख्याता नैयायिकविप्रतिपत्तिनिरासार्थम् । ते ह्युपलब्धिलक्षणप्राप्तिशब्देन महत्त्वानेकद्रव्यवत्त्वरूपाणि द्रव्याणामाहुः।" महत्त्वादनेकद्रव्यवत्त्वाद् रूपाञ्चोपलब्धिः” [वै शे० ४.१.६.] इति वचनात्। एवं चोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सत्यपि वस्तुनि सम्भवतीत्यसद्व्यवहार5 सिद्धावनैकान्तिकीत्याचक्षते। नहि चाक्षुषस्यापि रश्मेर्महत्त्वानेकद्रव्यवत्त्वरूपाण्युपलम्भकानि भवन्ति। न च तावताऽनुपलम्भऽप्यसद्यवहारस्तत्र शक्यते कर्तुम् । यदाह भाष्यकार:- नानुमानत उपलभ्यमानस्य प्रत्यक्षतोऽनुपलब्धिरभावे हेतुः" इति। इन्द्रियत्वात् स्वगादिवत् किल प्राप्यकारि चक्षुरित्यनुमानतश्चाक्षुषो रश्मिरुपल10 भ्यते तस्य[S. 160b.]प्रत्यक्षतोऽनुपलब्धिः कथमभावव्यवहारं साध
येत् ? इति। तदेवमुपलब्धिलक्षणप्राप्तस्यानुपलब्धिमसम्यवहारेऽनैका न्तिकामाहुर्नैयायिकाः [T. 326a.] तन्निरासमुपलब्धिलक्षणप्राप्तरविपरीतरूपोपदर्शनेन शास्त्रकारोऽभ्यधात् । यदा ह्युपलम्भप्रत्ययान्तरसाकल्यं खभावविशेषश्च यथोक्त उपलब्धिलक्षणप्राप्तिरुच्यते 15 न महत्त्वादिकं तदा कुतो व्यभिचारावकाशः?, सति वस्तुनि तस्या
असम्भवात्। महत्त्वादिकं त्वसम्भवादेव नोपलब्धिलक्षणप्राप्तिशब्देन वाच्यम् । नहि रूपादिव्यतिरिक्तं द्रव्यं तत्प्रतिभासविवेकिनाऽऽकारान्तरेण स्वज्ञाने प्रतिभासते। न चाप्रतिभासमान
मनात्मरूपविवेकिना रूपेण प्रत्यक्षतामनुभवत्यतिप्रसङ्गात् । तत् 20 कुतोऽस्याऽसतो महत्त्वादिसम्भवः ? । न च स्वरूपेणामहतः तत्सम्बन्धेऽप्यस्य महत्तासम्भवः । अंपररूपेण वा ग्रहणे कथं तें
ग्राहिज्ञानमभ्रान्तम् ? । ततो न महत्त्वं द्रव्यस्योपलम्भकं रूपं वा। तस्यापि स्वरूपेण ग्रहणे द्रव्यात्मनोऽत्यन्तपरोक्षत्वात् । द्रव्यरूपस्य च [S. 161a.] तद्विवेकेनानुपलक्षणान्न तथा ग्राहकत्वम् । न 25 च महत्त्वं रूपं वा द्रव्योदयकालेऽभ्युपगम्यते, यतो द्रव्यं गुणस्य
समवायिकारणमिष्यते। तच्च प्रतिलब्धात्मकमेव तथातामनुभवतीति प्रथमे क्षणे द्रव्यं निर्गुणमेव । न चास्य द्वितीये क्षणे प्राक्तनरूपत्यागोऽस्ति रूपान्तरं वाऽऽविर्भवति यतः प्रागप्रतिपन्ना
१. न्यायसूत्रभाष्यकृञ्चाणक्यः । २. अत्र न्यायसूत्रम्-" नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः" ३. १. ३६ इत्येवरूपं भाष्यकारवचनत्वेनोद्धृतम्-सम्पादकः । लभ्यते ३. महत्त्वेन । ४. प्रचय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org