________________
[४. अनुपलब्धिहेतुनिरूपणम् ।]
[$ १. विप्रतिपत्तिप्रदर्शनपूर्वकमनुपलब्धेस्स्वरूपम् । ] तदेवं कार्यहेतौ यतो यद्भवदृष्टं सकृत् प्रत्यक्षानुपलम्भाभ्यां तादृशस्य सर्वस्य तथाविधादेव जन्म न तद्विजातीयादित्येकस्या [T. 325a.] अपि कार्यव्यक्तेः कुतश्चिद् भावदर्शने व्या- 5 पत्याऽन्वयव्यतिरेकसिद्धिरिति प्रतिपादितम् । अनुपलब्धौ तु यथोक्तायां निमित्तान्तराभावोपदर्शननिबन्ध नयो न्वयव्यतिरेकयोविप्रतिपत्तिः । स्वरूप एव तु परे विप्रतिपद्यन्ते । तथाहिकेचिदुपलब्ध्यभावमात्रमनुपलब्धिमभावस्य [S 159b.] प्रसज्यप्रतिषेधात्मनः प्रमाणान्तरत्वेन गमिकामिच्छन्ति ईश्वरसेनप्रभृ-10 तयः, अपरे तु प्रतिषेध्यविषयज्ञानरूपेणापरिणाममात्मनः तदन्यवस्तुविषयं विज्ञानमेव वाऽभावस्य गमकं प्रत्यक्षानुमानाभ्यां प्रमाणान्तरमाहुर्मीमांसकाः। न ह्यन्यवस्तुविषयं ज्ञानं प्रत्यक्षानुमानात्मकमभावं प्रतिपद्यते, तस्य भावांशविषयत्वात् , अभावांशस्य च ततोऽन्यत्वात् । अभावांशे तु नास्तीति ज्ञानं जन-15 यत् तदभावप्रमाणाख्यां लभते, यथेन्द्रियं स्वविषयप्रतिपत्तिजनकत्वेन प्रत्यक्षाख्याम् । तथाऽन्ये अन्यभावलक्षणां तज्ज्ञानलक्षणां वाऽनुपलब्धिमभावस्यैव साधनमाहुर्नाभावव्यवहारस्य , अनुपलब्धेर्लिङ्गाभावसिद्धौ स्वयमेव तद्व्यवहारप्रवृत्तेः । नैयायिकास्तु नास्तीति ज्ञानमेव केवलप्रदेशादिग्राहिज्ञानानन्तरभाविप्रत्यक्षं न 20 प्रमाणान्तरमभावस्य तुच्छरूपस्य परिच्छेदात्मकमाचक्षते तदे. वास्य [T. 325b.] घटादेः प्रतिषेध्यस्यानुपलब्धिशब्देन यद्युच्यते न कश्चिद्विरोधः इति । तदेवमनुपलब्धौ भेदं गता बुद्धयः प्रतिवादिनामिति [S. 160a.] तन्निरासार्थमनुपलब्धिखरूपं तावदुपदर्शयन्नाह -" उपलब्धिलक्षणप्राप्तस्य” इत्यादि । 'उपलब्धिलक्षणप्राप्ति:-25 'उपलम्भप्रत्ययान्तराणां समनन्तराधिपतिप्रत्ययसंज्ञितानां साकल्यम्, आलम्बनप्रत्ययस्य खभावविशेषश्च। यः स्वभावः सत्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवतीत्येवंरूपा शास्त्रकृताऽन्यत्र । १. तदना T.। २. आलोक-मनस्कार-चक्षुषाम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org