________________
..... हेतुबिन्दुटीका। भेदाभेद्वशाद भेदाभेदी स्वभावः प्रतिपद्येत, तावपि यदि भिन्नौ तदा भावस्वभावस्तवस्थ एवेति न तस्य कुतश्चित् स्वरूपतो भेदोऽभेदो वा स्यात् । पुनस्तद्वशाद भेदाभेदकल्पनायां भावस्वभावस्य तवस्थं तावस्थ्यमनवस्था [T. 323a.] च भेदा5 भेदयोः । अथाभिन्नौ तदा भावस्वभाव एव भेदाभेदाभ्यां कियत इति स्यात्, तस्य रूपान्तरेण करणासम्भा(म्भ)वात्; तस्य च हेत्वन्तरात् पश्चाद् भवतस्ततोऽन्यत्वापत्तेः। न च भावस्वभावः क्रियते , तस्य स्वहेतोरेव निवृत्तेः। स्वहेतुभ्य एव भावस्वभावस्य कुतश्चिद् भिन्नाभिन्नात्मन उत्पत्तिकल्पनायां वा भे10 दाभेदयोर्व्यतिरेकवतोः वैयर्थ्यम् ; [S. 157b.]. भेदाभेदबुद्धेरपि तत एव सिद्धेः। तस्माद् वैशेषिकादिकल्पितयोर्भेदाभेदयोविशेषसामान्यात्मनोरयोगात् भावस्वभाव एव भेदाभेदशब्दबाच्यः तयोरहेतुकत्वे भावस्वभावस्यैवाहेतुकत्वमापतितम् । ततो
भावानामहेतुकत्वान्नित्यं सत्त्वमसत्त्वं वा स्यात् । अहेतुकत्वे हि 15 भावानां यदि कदाचित् सत्त्वं सर्वदैव स्यात् । अथ कदाचिद
सत्त्वं तदपि सर्वदा स्यात् । कादाचित्कत्वं तु सत्त्वस्यायुक्तम् । किं कारणम् ? । अपेक्ष्यस्याहेतुकत्वे सति कस्यचिदभावात् । यस्मा"दपेक्षया हि” तस्यापेक्षणीयस्य हेतोर्भावे भवन्तोऽभावे च न भवन्तः " कादाचित्काः ” कदाचिद्भवा युज्यन्ते, नान्यथोति । 20 तस्मान्न विलक्षणात् कारणात् अविलक्षणस्य कार्यस्योत्पत्तिरभ्यु
पगन्तव्या, यथोक्तेन न्यायेनाहेतुकत्वादिप्रसङ्गात् । - पुनरपि विलक्षणायाः सामग्र्याः [T. 323b.] अविलक्षणस्य कार्यस्योत्पत्तौ दोषान्तरमाह - " ब्यवस्थावांश्च" प्रतिनियतः
" साध्येषु " घटपटादिषु " साधनानां " मृत्तन्त्वादीनां लोके यो 25 " नियोगो” घटार्थी मृत्पिण्डमेव तत्र नियुड़े न तन्तून् , पटार्थी च तन्तूनेव न मृत्पिण्डम् इत्यादिकः स न [S. 158a.] स्यात् । कस्मात् ? इत्याह – “ कारणानां " - सामग्रीणां याः " शक्तयः " - आत्मातिशयलक्षणास्तासां “प्रतिनियमे " काचिदेव सामग्री क.. १. भेदाभेद । २. भेदाभेदयोः । ३. कदाचि° T. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org