________________
विलक्षणसाम घ्या नाविलक्षणकार्यजनकत्वम् । चिदेव कार्ये उपयुज्यते नान्याऽन्यत्रेत्येवंरूपे " हि ” यस्मात् " किञ्चिदेव " मृदादिकं “ कस्यचिदेव " घटादेः साधनायोपादीयते " नापरं " तद्विलक्षणं तन्त्वादिकम् कस्मादेवम् ? इति चेत् ? " तस्यैव " मृदादेः “तत्र " घटादौ "शक्तेर्योग्यत्वात् “ अन्यस्य " तन्स्वादेस्तत्राशक्तेः। कस्मात्तस्यैव तत्र शक्तिर्नान्यस्य इत्यत 5 आह " तयोः " मृदादेस्तन्त्वादेश्च “ तज्जननस्वभावत्वेन " घटादिजननस्वभावत्वेन “ इतरस्वभावत्वेन च " घटाद्यजननस्वभावेन च " भेदात् ” अन्यत्वभावात् । नहि मृत्तन्त्वादिरूपतातोऽन्यदेव तज्जननेतरस्वभावत्वं नाम । यदा तु सामग्रीणां परस्परविलक्षणानामपि शक्तिप्रतिनियमो नेष्यते विलक्षणादपि अविलक्षण- 10 कार्योपगमात् [T. 324a.] तदा * तज्जननखभावविलक्षणादपि ” धूमादिजननस्वभावं यत् कारणमग्नीन्धनादिसामग्रीलक्षणं तद्विलक्षणादपि शक्रमूर्दादेः क्षणाश्रयेण वा धूमादेस्तस्याग्नीन्धनादिसामग्रीजन्यस्य धूमस्य तत्क्षणस्य चोत्पत्ताविष्यमाणायां " न तज्जननशक्तेः प्रतिनियमो " विवक्षितधूमादिकार्यजननशक्तिप्रतिनियमः। 15 " इति ” तस्माद् " यत् किञ्चित् ” कार्य " यतः कुतश्चित् ” कारणात् " स्यात् ” उत्पद्येत, न' यथादृष्टमेव यथादृष्टात् । सर्व [S. 158b.] सर्वतो जायेतेति यावत् । तस्माच्छक्तिप्रतिनियमः कारणानामभ्युपगन्तव्यः। ततो विलक्षणसामग्रीजन्मनः कार्यस्य कुतश्चित् साम्यात् सरूपस्योपलक्षणेऽप्यन्यादृशतैवेति सवस्तादृशस्तथा- 20 विधजन्मति सिद्धम् ।
स्यान्मतम् - विलक्षणाया अपि सामग्र्यास्तल्लक्षणकार्यज- . ननशक्तिः समानेति तल्लक्षणं कार्य भविष्यति कस्याश्चिदेव च तथाभावान्न यथोदितदोषावसर इत्यत आह " तज्जननशक्तिसाम्ये तु" इत्यादि । उक्तमेव तावद् अत्र पूर्वपक्षे 'न च धूमस्य तदतज्जन्य- 25 स्वभावः' इत्यादिकं दूषणम् । अभ्युपगम्यापीदमाह - "यादृशी यमिसहकारिणः " तदाधीयमानविकारस्ये"न्धनस्य " स्वभेदेन धूमभेदहेतोः [T. 324b.] "शक्ति” आत्मातिशयस्तादृश्येव शैक्रमूडों १. यथादृष्टायथादृष्टयोः T. | २. स्वभावभेदहे° T.। ३. शक्रमूर्नादेर्वा T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org