________________
विलक्षणसामडया नाविलक्षणकार्यजनकत्वम् । ल्यकुरादयः तबीजाद्याकारमनुकुवते । न च तज्जातीयतामशाल्यादिव्यावृत्तिनिबन्धनां नानुभवन्ति । तस्माद् इन्धनमेव तस्योपादानकारणम् अग्यादिसहकारिप्रत्ययाहितविशेषं तथाविधं धूमकार्यमङ्गारादि भिन्नाकृति जनयतीत्यलमतिप्रसङ्गेन ।
ननु च यदि नाम सामग्रीभेदेऽपि कार्यस्य भेदो न जात: 5 तदा कारणभेदे सत्यपि तस्याभावात् तस्याहेतुकताऽस्तु, अभेदस्य तु किमायातम् ? येनोभयोरहेतुकत्वमुच्यते इत्यत आह - " तथाहि ” इत्यादि। यदा हि सामग्रीभेदे [S. 156b.] सत्यपि कार्यस्य भेदो न जात इति तस्याहेतुकत्वम् - न हि हेतौ सत्यभवतः कथश्चिदपि हेतुमत्तोपपद्यते - तदा योऽप्यसावभेदः' 10 कार्यस्य सोऽपि सामग्र्योः भिन्नत्वादसत्यभेदे जात इति कुतस्तस्यापि हेतुमत्ता ?। यथा हि हेतौ सत्यभवतो न हेतुमत्ता तथा हेतावसत्यपि भवतो हेतुमत्ता कुतः स्यात् । हेतुभेदस्यैवाऽभे. दनिवन्धनत्वात् न इति चेत् ; न तद्ययं भेदः कचित् पद्मावध्नीयात्, शालीकोद्रवादेरपि [T. 322b.] हेतुभेदस्याभेदहेतुत्वा- 15 निमित्तमन्तरेण कल्पनायां विशेषाभावात् । प्रतिभासाभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो भेदेऽप्युपलक्षणात् । स्यादेतत् - यो ह्यतादृशादपि तादृशोद्भवमिच्छति तस्य भेदाभेदयोरहेतुकत्वमिष्टमेव भावा एव केवलं हेतुमन्त इत्यत आह - " तद्व्यतिरिक्तश्च ” इत्यादि । नहि भेदाभेव्यतिरिक्तः कश्चिद् 20 भावानां स्वभावोऽस्ति यस्तयोरहेतुकत्वेऽपि हेतुमान् स्यात् । तस्य ताभ्यामन्यत्वे — अस्येमौ भेदाभेदौ ' इति' [S. 157a.] सम्बन्धाभावप्रसङ्गात्, तदन्यसम्बन्धकल्पनायामनवस्थादोषात्, अनन्यत्वेऽपि भेदाभेदयोर्भावस्वभावस्य च खात्मन्येवावस्थानात् अनुपकाराच कुतः सम्बन्धिता ? । उपकारकल्पनायां च 25 पदि भावस्वभावः स्वहेतुभ्य एव न कुतश्चिदू भिन्नोऽभिन्नो वा समुत्पन्न इतीष्यते, तदा तद्भावेऽपि स्वभावान्यथात्वाभावात् कुतो भिन्नाभिन्नता भावस्वभावस्य स्यात् ।। अथ व्यतिरिक्त
१. °दः सर्वस्य - T.। २. °पि कारणस्य T.। ३. °दभेदे T.। ४. इत्याकारस° T.। ५. स्वात्मना एव T. । ६. भेदाभेद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org