________________
हेतु बिन्दुटीका ।
-
[$ ६. विलक्षण सामन्या अविलक्षणकार्यजनकत्वे दोषाः । ] यदि पुनर्गोमयेतरादिजन्मनः शालूकादेरग्निधूमादिजन्मनो वा धूमादेः प्रत्यभिज्ञावशाद् विलक्षणसामग्रीनिबन्धनत्वेऽपि समानस्वभावतैव स्यात् को दोषः स्यात् ? इत्यत आह - अन्यथा 5 हि " इत्यादि । यदि [S. 155b.] हि या स्वजाति[लक्षणप्रत्ययान्तरसहिता सामग्री या च] स्वजातिनिरपेक्षा गोमयादिरूपा शालूकादेः, धूमस्य वा यानीन्धनादिलक्षणा [T. 321b.] या च शक्रमूर्द्धादिस्वभावा धूमाद्यात्मिका अवि ( का तस्या: वि) लक्षणाया अपि सामग्र्या अविलक्षणं तादृशमेव कार्य धूमशालूकादिकमुत्प10 घेत तदा न ' कारणस्य ' सामग्रीरूपस्य " भेदाभेदाभ्यां " वैलक्षण्या वैलक्षण्याभ्यां कार्यस्य " भेदाभेदौ " वैलक्षण्यावैलक्षण्ये तज्जातीयविजातीयात्मके स्यातामिति कृत्वा " विश्वस्य " सकलस्य पदार्थ - राशेः " अहेतुकौ भेदाभेदौ " सजातीयविजातीयत्वे स्याताम् । तस्माद् यत्र विलक्षणा सामग्री तत्र कुतश्चित् साम्यात् सरूप15 स्वेऽपि विजातीयतैव कार्यस्येति ।
१६२
ननु धूमेन्धनादिसामग्रीभेदेऽपि धूमस्य न जातिभेदमामनन्ति विद्वांसः, अतद्रूपपरावृत्तेरुभयत्र समानत्वात्, नैष दोष:, क्षणभेदाश्रयसूक्ष्मावान्तरजातिभेदेऽपि स्थूलसन्तानाश्रयविजातीयव्यावृत्तेः समानत्वात् । शाबलेयाद्यवान्तरजातिभेदेप्यगो20 व्यावृत्तिनिबन्धन गोजातिवद् गवां [S. 156a ] सर्व्वधूमानामेकंसन्तानव्यवस्था व्यु (प्यु) पादानकारणक्षणभेदेऽप्येकाकारप्रत्ययनिबन्धनतया समानत्वात् । आद्यस्येन्धनप्रभवस्य कथम् ? इति चेत् । न । ईन्धनजात्यनुविधानात् सर्व्वधूमानाम् । तथा हिअगुरुकर्पूरचन्दनादिजातिभेदमनुक्कुर्व्वन्त्येव [T. 322a.] तडूमा:, 25 कासश्वासादिहरद्रव्यनिम्मितवर्त्तिभेदं च तडूमाः, तद्रसवीर्यविपाकानुविधानात् । न चाकारान्यतया विजातीयत्वम्, यतो नाकाराऽभेदभेदनिबन्धने सजातीयविजातीयत्वे । नहि शा
१. मेकजातिव्य° T.। २. एक सन्तानरा ( नव्य )वस्थेति सम्बन्धः । ३. तद्रसकार्यवि T. ४. च कारणजन्यतया 1. ।
Jain Education International
3
For Private & Personal Use Only
www.jainelibrary.org