________________
'न विजातीयादुत्पत्तिः' इत्यस्यार्थः । णभेदोऽन्यादृशादुत्पत्तिः । [T. 320b.] सर्वस्य तदाऽऽदेग्र्गोमयादिनिमित्तत्वात् । यदा तु प्रबन्धेन पूर्वक्षणनिमित्तानामुत्तरोत्त. रक्षणानां सन्तानेनोत्पत्तिलक्षणा वृत्तिर्भवति शरस्य तदा शंरादावः। तदेवं यस्य प्रबन्धादेः शृङ्गादिभ्यो भावो न तादृशस्य शरादेः यस्य च [S. 154b.] शरादेस्तदुत्तरोत्तरस्य भावो न ताह- 5 शस्य शृंङ्गादेरिति न दृष्टकारणविजातीयात् कारणात् तादृशस्य सम्भव इति कार्यहेतोरन्वयव्यतिरेकनिश्चयः।
यदाऽपि शालूकादयः पूर्वपूर्वस्वजातिनिबन्धना अनादिसन्तानप्रवृत्ता इष्यन्ते तदाऽपि गोमयादिभ्यः केषाश्चिद्भावेऽपि तादृशस्वाभावान व्यभिचार इति दर्शयन्नाह – “ अस्ति च " इ-10 त्यादि । यस्य शालूकसन्तानस्य गोमयादि कारणं यस्य च स
वंदा स्वजातिनिमित्तत्वं तयोर्गोमयेतरजन्मनोः शालूकयोरस्त्येव स्वभावभेदः परस्परमन्यादृशत्वं " रूपस्याभेदेऽपि " सति । तुल्याकारत्वे सति कथमन्यादृशत्वम् ? इति चेत्, आह - "नहि" इत्यादि । यस्मान्नाकारतुल्यतैव भावानां " तत्त्वे " तादृशत्वे नि-15 मित्तम् यतो गोमयेतरजन्मनोः शालूकयोराकारसाम्यात् तादृशत्वमेव स्यान्न जातिभेदः। कुत एतत् ? इत्याह - " अभिन्नाकाराणामपि " इत्यादि । येषामपि हि समानाकारता [S. 155a.] केषाश्चिद्भावानां तेषामपि यत आकारादन्यतो [T. 321a.] विशेषाज्जातिभेदो दृश्यते ततो नाकारसाम्यमेव जात्येकत्वे निबन्ध- 20 नम् । तथा हि - आकारसाम्येऽपि कचित् पुष्पाद भेदो दृश्यते नीलेतरकुसुमयोरिव सूर्ययोः, कचित्फलात् वन्ध्येतरयोरिव ककर्कोटक्योः , कचिद् रसाद वन्येतरयोरिव त्रपुषयोः, कचिद् गन्धाद् वृक्षेतरप्रभवयोरिव चम्पकयोः, कचित् प्रभावात् स्पर्शोपयोगस्रंसिन्योरिव हरितक्योरिति । तस्मादाकारसाम्यनिबन्धनं 25 यद्यपि 'तदेवेदम् ' इति प्रत्यभिज्ञानं सजातीयतां गोमयेतरजन्मनोः शालकयोरुपकल्पयति तथापि विलक्षणसामग्रीजन्यतया तयोर्जातिभेद एवावगन्तव्यः, नैकजातिता। तत एव प्रत्यभिज्ञानस्य भ्रान्ततया तत्कल्पितस्य तादृशत्वस्यालीकत्वात् । ...१. शरोद्भवः - T.। २. श्रृङ्गादेन्यादृशस्य भाव इति T. । ३. सजात्यनुबन्धना-T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org