________________
१६०
हेतुबिन्दुटीका। इति कृत्वा कार्यकारणयोरेवं यथोक्तेन न्यायेन जन्यजनकरूपस्य स्वभावस्य नियमाद् यादृशं यस्य कारणमेकदा प्रत्यक्षानुपलम्भाभ्यामेवावधारितं " तद्विजातीयात् ” ततोऽन्यादृशात् कारणात् " उत्पत्तिः " तादृशस्य [S. 153b.] कार्यस्य " न भवति ” अन्याह5 शस्य एव न वार्यत इति ।
तदेवं तादृशातादृशकारणकृतकत्वं तादृशातादृशकार्यस्वभावस्य प्रतिपाद्योपसंहरन्नाह - " तत् तस्मात् यादृशं [T. 320a.] काय यादृशात् कारणात् दृष्टं प्रत्यक्षानुपलम्भाभ्यां निश्चितमे
कदा तत् तन्न व्यभिचरति” तादृशमन्यादृशान्न भवति । यनैवं 10 " तेन " कारणेन " सिद्धे कार्यकारणभावे " तादृशस्य “ कार्यस्य ” तादृशमेव कारणमिति निश्चये सति यथोदितेन न्यायेन " कार्यस्य कारणेन व्याप्तिरगन्वयव्यतिरेकरूपा " सिद्धा" भवति ।
“न विजातीयादुत्पत्तिरिति” दृष्टकारणविजातीयात् कारणादन्यादृशानोत्पत्तिरित्यमुमर्थमप्रतिपद्यमानः कार्यस्य विजातीयात् का15 रणानोत्पत्तिरित्ययमत्रार्थोऽभिमत इति मन्वानः परश्वोदयन्नाह -
" ननु " स्वतो “ विजातीयादपि " कारणात् “ किञ्चित् ” कार्य “ भवद् दृष्टं " तत् [S. 154a.] कथं न विजातीयादुत्पत्तिरित्यस्य न दृष्टविरोधः स्यात् । कथं यथा इत्याह - “ तद् यथा गोमयादेः " आदिग्रहणात् शृङ्गचन्द्रकान्तादेः “ शालकादि " आदिग्रहणाच्छरोद20 कादि । तथा हि - गोमयाच्छालूकस्य भावः शृङ्गाच्छरस्य चन्द्र
कान्तादपाम् । न च गोमयादिकं शालूकादेन विजातीयम् तत् किमुच्यते न विजातीयादुत्पत्तिः इति । सिद्धान्तवादी परस्य भ्रांततां दर्शयन्नाह - " न विजातीयादुत्पत्तिः ” इति । यतो हि कार
णाद् यद् भवद् दृष्टं तत् ततोऽन्यादृशान्न भवति इत्ययमत्रार्थों 25 विवक्षितः, न तु कार्यविजातीयादिति । न च तस्य व्यभिचारः।
तदाह - " तथाविधमेव हि " गोमयादिरूपं “ तादृशां " शालकादीनामा "दिनिमित्तं" शालूकादिप्रवन्धस्य य आदिः प्रथम आरम्भक्षणः तस्य कारणमिति कृत्वा शालूकादिप्रबन्धस्यादेन कार१. नियमदर्शनात् यस्य T.। २. दृष्टान्तः T. । ३. तत्र T.। ४. उत्सला T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org