________________
१५९
तादृशातादृशजन्यकार्यस्य तथात्वम् । स्यान्मतम् - नैव तादृशातादृशस्वभावतायां तादृशातादृशकारणापेक्षा, कार्याणामुत्पत्तिमात्र एव कारणापेक्षणादित्यत आह - " अकारणापेक्षणे च " तादृशातादृशरूपतायां तादृशातादृशकारणानपेक्षणे च तादृशातादृशतायाः “ अहेतुकत्वप्रसङ्गात् "। न हि तादृशातादृशस्वभावयोरभूत्वा भावव्यतिरेकेणान्या काचिदु- 5 त्पत्तिः यत्र' तादृशातादृशस्वभावकारणनिरपेक्षाणामपि तदपेक्षा स्यात् । तस्मादुत्पत्तिशब्देन तादृशातादृशस्वभावतैवोच्यत इति । [S. 152b.] तत्र कारणापेक्षोपगमे कथं तादृशातादृशतायां कारणापेक्षा न स्यात् । तस्मात् सामग्रीणां तादृशातादृशत्वादेव कार्याणां तादृशातादृशस्वभावविभाग इति कुतोऽन्यादृशात्तादृश- 10 सम्भवः ? इति ।
यत्तूक्तं ' यथैको धूमोऽग्नीन्धनाभ्यां विलक्षणाभ्यां जन्यते तथैकलक्षणमपि कार्य विलक्षणादपि सामग्र्यन्तराद् भविष्यति' इति । तदयुक्तम् । यतो नास्माभिविलक्षणानां जनकत्वं वार्यते जनयन्त्येव परस्परविलक्षणा अपि स्वहेतुपरिणामोपनिधिध-15
आणस्तवस्थानियताः तदेकं कार्य, तस्य तु तेषां च परस्परापेक्षया [T. 319b.] जन्यजनकस्वभावतानियमात् तादृशस्य तादृशादेव जन्मोच्यते नान्यादृशात्, तस्यातज्जननस्वभावत्वात्, तभावेऽप्यन्यतो भवतस्तदुत्पत्तिनियमाभावात् । अनियमे च [S. 153a.] कार्यकारणभावायोगात् । यदि त्वग्निरिवेन्धनोपादा- 20 नोपकृतस्तदुपादानोपकृतं चेन्धनमिव तवस्थानियतमतादृशमपि धूमादिकं तादृशं धूमं जनयेत् प्रत्यक्षानुपलम्भाभ्यां च तथाऽवगम्येत तदाऽग्यादिवत् सोऽपि तज्जननस्वभावतानियमात् तादृशजनकः केन नानुमन्येत । तदभावेऽपि तु तादृशस्य भावे तयोर्जन्यजनकस्वभावतानियमाभावात् कुतः कार्यकारणतेत्यहेतु-25 तैव तादृशस्यान्यादृशाद् भवतः स्यात् । यत एवं " तस्मात् " सोऽग्नीन्धनादिसामग्रीविशेषो मन्तव्यो “ यः " आद्य धूमजननो” नान्यः “स” धूम आद्यो यः " म्न्यादिसामग्रीविशेषेण” जनितो नान्य अ १. पेक्षणमभिमतमित्यत - T.। २. उत्पत्तौ। ३. ° अताह° T.। ४. धूमव्यतिरिक्तसाम
प्रयभावे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org