________________
१५८
हेतुबिन्दुटीका। भावी-न जनयेत् । कुतः ? । अतज्जननस्वभावत्वात् । तादृशस्य ह्यन्यतो भावे स एव तज्जननस्वभावो नाग्न्यादिसामग्रीति तज्जननस्वभावविकला कथं तं जनयेत् । अत्राप्युदाहरणम् - * सामग्र्यन्तरवदिति "। यथा सामग्रयन्तरमतज्जननस्वभावाभिमतं 5 [S. 151b.] न जनयति तद्वदग्न्यादिसामग्यपि । तथा हि - सा
आत्मीयं स्वभावमनुसृत्यैव प्रवर्त्तते, ततः कुतोऽसौ सामग्रीबलाज्जायेत ?।
[५. तादृशातादृशजन्यत्वे कार्यस्यापि तादृशातादृशत्वम् । ]
स्यान्मतम् - अग्न्यादिसामग्रीजन्यस्वभावोऽपि तादृशोधूमो' 10 धूमजन्यस्वभावोऽपि यथा स एव धूम इन्धनजन्यस्वभावोऽग्नि
जन्यस्वभावश्चोभयतो [T. 318b.] भवति । तथा तादृशोऽपि धूम उभयसामग्रीजन्यस्वभावतयोभयतो भविष्यतीत्यत आह - " न च " नैव " धूमस्य " तादृशस्य " तदतज्जन्यः " अग्न्यादिसामग्रीजन्यो धूमजन्यश्च " स्वभावो युक्तः " युक्त्या सङ्गतः। कुतः ? 15 " एकस्वभावत्वात् । तादृशस्य धमरूपस्य भेदाभावात् । नहि तस्य कालभेदेऽपि तादृग्रूपता भिद्यते । भेदे ह्यन्यादृशस्यान्याहशाद्भावे विवादायोगात्। तस्य यदि तादृशातादृशकारणजन्यता स्यात् ततस्तादृशातादृशस्वभावतैव स्यात् । तदेव दर्शयन्नाह - " धूमाऽ
धूम " - इत्यादि । धूमशब्देन चादृशोऽग्न्यादिसामग्रीजन्यस्ता20 दृशः स्वभावोऽभिप्रेतः, अधूमशब्देनान्यादृशकारणजन्यो धूम
जनितोऽन्यादृशः। तयोश्च तादृशातादृशकारणजन्यतयैव तादृशातादृशस्वभावताऽवगन्तव्या वक्ष्यमाणनीत्या । तेनानिधूमलक्षणात् " धूमाधूमजननखभावात् ” तादृशातादृशजननस्वभावात् [S. 152a.] तादृशातादृशतयाऽस्य भवतो धूमाधूम[स्वभाव]स्ता25 दृशातादृशस्वभावः स्यात् कुतस्तादृश एव ? । कुत एतत् ? इत्याह – “ कार्यस्वभावानाम् ” इत्यादि । कार्याणां हि ये स्वभावाः परस्परासंभविनः ते परस्परविलक्षणकारणसामग्रीस्वभावकृता न स्वाभाविका अहेतुकत्वप्रसङ्गात् । [T. 319a.] ततस्तादृशाताहशाद् भवतो धूमस्य तादृशातादृशस्वभावतैव' स्यात् । १. धूमोऽधूम - T.। २. °मालूमज° T. । ३. °व न स्यात् T.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org