________________
अतादृशत्वेपि सादृश्यात् तादृश्याभिमानः।
१५७ " समानवर्णसंस्थाने सन्तानेऽन्यत्र जायते ।
अतस्मिंस्तन्मतिः पुंसां किमुतैकत्र संततौ ? ॥” इति । तत्त्वचिन्तकास्तु तादृशातादृशकारणभेदात् तादृशातादृशतां भावानां अनुमन्यन्ते न तादृशताम्। तद् यद्यतादृशादपि तादृशो भवेत् तदा तस्य तज्जन्यः स्वभाव इत्यतद्भाविनः सकृदपि ततो 5 भावो न स्यात् । अमुमेवार्थ समर्थयमान आह - " परस्परापेक्षया " इत्यादि । कारणापेक्षया हि जन्यस्वभावं कार्यम् , कार्यापेक्षया च जनकस्वभावं कारणम् । यतो हि कारणाद् यद् भवद् दृष्टम् तस्य तज्जन्यस्वभावः , इतरस्य च तज्जनक इति प्रतीयते। अन्यथा तस्य ततो भावायोगात्, इतरस्य च तज्जननायोगात् । 10 यदि नामैवं ततः प्रकृते किं सिद्धम् ? इत्यत आह - " तत्र " एतस्मिन् न्याये सति " यदि धूमो " यादृश आद्योऽग्न्यादिसामग्रीजनितस्तादृशो द्वितीयादिक्षणभावी “ अन्यादिसामग्र्या " [S. 151a.] अग्नीन्धनादिकारणकलापात् तज्जनकस्वभावतया नि रिता"दन्यतोऽग्नीन्धनादिसामग्रीजनितादाद्याडूमक्षणाद् भवेत् । तदा 15 " तस्य ” तादृशस्य धूमस्वभावस्य “तज्जन्योऽग्न्यादिसामग्रीजन्यः " स्वभावो न भवति" किन्तु धूमजन्य एवेति कृत्वा सकृदपि "ततोऽग्न्यादिसामग्रीतो “ न भवेत " । तादृशस्य हि [T. 318a.] स्वभावस्यान्यतो भावे तज्जन्यस्वभावता , नाग्न्यादिजन्यस्वभावतेति कुतः सकृदपि ततो भावो युज्येत । अत्र दृष्टान्तः " अर्था- 20 न्तरवद्” इति । यथा ह्यर्थान्तरमतज्जन्याभिमतमन्यतो भवत् न तज्जन्यस्वभावं नाग्न्यादिसामग्रीजन्यस्वभावमिति सकृदपि ततो न भवति तद्वत् तादृशो धूमोऽपीति ततो भवन्नन्याहश एवासाविति गम्यते।
स्यान्मतम् - अग्न्यादिसामग्याऽसावतज्जन्यस्वभावोऽपि 25 तादृशो बलाज्जन्यते कस्तस्य तपस्विनोऽपराधः ? इत्यत आह - " नापि " न केवलं स्वयमतज्जन्यस्वभावतया ततो न भवेत्, किन्त्वग्न्यादिसामग्रयपि तं तादृशं धूम-यादृशो द्वितीयादिक्षण१. निवारिता° T. । २. भावो न यु° T. । ३. ह्यङ्कराय° - -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org