________________
हेतुबिन्दुटीका। सरूपतयाऽवसीयमानस्याप्यन्याहशत्वात् । तादृशो ह्यग्नीन्धनसामग्रीक्षणान्तरजन्य आद्य एवापरः क्षणस्तथा तदन्य आद्य एवापरानीन्धनसामग्रीजन्य इति तादृशस्य धूमस्य धूमादसम्भवात् न कचिदनाश्वासः कार्यः। तथा यादृशो द्वितीयक्षणभावी 5 प्रथमधूमक्षणजनितो धूमक्षणस्तादृशोऽपरप्रथमधूमक्षणजनित एव द्वितीयो धूमक्षणो न तृतीयादिः। एवं तृतीयक्षणादिष्वप्यकुरादिषु च सर्वत्र वाच्यम् । कुतः पुनरयं विभागः ? इति चेत्, आह - " अतद्भाविनः, अतस्माद् - अनग्नीन्धनादिरूपाद धूमाद [T. 317a] भवनशीलस्य प्रथमक्षणाविलक्षणस्य धुमस्य "सकृदपि" 10 [S. 150a.] एकदापि " ततः " अग्न्यादिसामग्रयाः “अभावाद " भावायोगादू । यथा हि प्रथमक्षणापेक्षया द्वितीयस्तादृशस्तथा तद्पेक्षया प्रथमोऽपीति तादृशत्वाविशेषात् तादृशस्यानग्नितो भावे तादृशो नाग्निजन्यस्वभावः इति सकृदपि ततो न भवेत् । भवन्
वा तज्जन्यस्वभावतामात्मनस्तादृशः ख्यापयतीति कुतोऽन्या15 दृशाद् भवेत् ? तस्मादन्यादृशाद् भवन्नन्यादृश एव ततो न व्यभिचारः। [६४. भिन्नकारणजन्यानां धूमानां अतादृशत्वेऽपि सादृश्यात् तादृशत्वाभिमानः।]
ननु सर्वेषां धूमक्षणानां कण्ठक्षणनाक्षितिकालीकरणादिकायामर्थक्रियायामुपयोगात् कथं तादृशस्वभावता न स्यात् ? । 20 न, तस्या अप्यर्थक्रियायाः क्षणभेदोपधीयमानरूपायाः तादृशत्वाभावात् तत्रापि तुल्यदोषत्वात् । कथं तर्हि लोके सर्वत्र धूमव्यवहारः इति चेत् ; सदृशापरभावनिवन्धनैकत्वाध्यवसायवशात् क्षणैर्व्यवहोरायोगाच्च । सादृश्ये सति कथं न तादृशता? इति चेत् । तादृशादन्यत्वात् सदृशस्य । तथा हि - गोसदृशो 25 भवति गवयः न तु तादृशः, गोरेवापरस्य तादृशत्वात् । परमा
थेनातादृशेऽपि तादृशाभिमानो [S. 150b.] मन्दमतीनां भवन् कथं निवार्येत ? । तथा हि - तत्त्वाध्यवसायोऽपि तावद् - अतस्मिन्नर्वाग्दृशां [T. 317b.] विनिवारयितुं न पार्यते, किमङ्ग पुनस्तादृशत्वाध्यवसायः ? यथोक्तम् - १. °नां वर्णकालीकरणादि' - T. | २. °हारयो T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org