________________
कार्यकारणभावप्रतातन दुर्लभत्वम् ।
१५५ यस्य तस्यातहाविनस्तादृशस्य तल्लक्षणस्य धूमवस्तुनः “सकृदपि” एकदाऽपि [S. 149a.] "ततः” अग्न्यादेः “अभावाद् भावविरोधात् । भवति च तादृशोऽग्न्यादिसामग्रीतः ततस्तादृशस्य स्वभावस्य तादृशमेव कारणमित्यवगम्यते सकृत्प्रवृत्ताभ्यामेव प्रत्यक्षानुपलम्भाभ्यामिति कुतो व्यभिचाराशङ्का ?। तेन यादृशो धूमोऽग्न्यादि- 5 सामग्या भवन् दृष्टः सकृत् तादृशस्य तस्य तज्जन्यस्वभावतया तादृशादेव भावात् 'यत्र धूमस्तत्राग्न्यादिसामग्री' इत्यन्वयव्यतिरेकनिश्चयः।
अथवाऽन्यथा व्याख्यायते - इह प्रत्यक्षानुपलम्भनिबन्धना कार्यकारणभावसिद्धिः प्रागुक्ता तन्निबन्धनावन्वयव्यतिरेको प्र-10 तिपादयितुम् , तच्चायुक्तम् । तथा हि -"कस्यचित्” धूमस्याग्न्यादिसामग्र्यनन्तरभाविन आद्यस्य "कदाचित् ” प्रथमोत्पादकाले "कुतश्चिद् अग्न्यादिसामग्र्याः " भावेऽपि " उत्पादेऽपि "सर्वस्तादृशो' यादृशः प्रथमक्षणभावी धूमो द्वितीयादिक्षणेष्वपि तादृशः प्रत्यक्षत एव तस्य पूर्वक्षणाविलक्षणतया प्रतीतेः । “तथाविधजन्मा” इति य-15 थाविधादग्नीन्धनसामग्रीलक्षणात् कारणादाद्यो धूमक्षण उत्पन्नस्तथाविधाज्जन्म यस्य स "तथाविधजन्मेत्येतत् कुतः " नैव तस्य धूमादेरभावात् [T. 316b.] । एवं च यद्यतो दृष्टं तस्यान्यतोऽपि भावस्य दर्शनात् सर्वत्रानाश्वास [S. 149b.] इति मन्यमान आह – “ तथा च " अनग्नितो धूमादपि धूमस्य भावे शक्रमू - 20 देरपि तस्य भावाविरोधादग्निना धूमस्य नान्वयव्यतिरेकाविति चेन्मन्यसे इति पूर्वपक्षाशङ्का । तदुक्तम् - "क्षणिकत्वे कथं भावाः क्वचिदायत्तवृत्तयः । प्रसिद्धकारणाभावे येषां भावस्ततोऽन्यतः॥
.. 25 अतश्चानग्नितो माद् यथा धूमस्य सम्भवः।
शक्रमूर्द्धस्तथा तस्य केन वार्येत संभवः ॥” इति । सिद्धान्तवाद्याह - नाऽग्नीन्धनसामग्रीजन्यो यादृशोधूमस्तादृश एव धूमादपि भवति कारणभेदेन । कुतश्चित् साम्यात् १. तुमिष्टौ त° – T.। २. शो न यादृ° T.। ३. कारणशक्तिभे° T. । ४. T. adds स्वयं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org