________________
१५४
हेतु बिन्दुटीका ।
त्वेन विशेषाभावात् । क एवं सति दोष: ? इति वेत्; तथा च प्रमाणाभावेन तथाविधजन्मत्वानिश्चयादतादृशादपि जन्माश
कायां तादृशस्य धूमादेरग्न्यादिनाऽन्वयव्यतिरेकौ न निश्चिताविति कुतः कार्यहेतोर्गमकत्वम् ? । न हि योऽसावेको देशकाला5 व स्थानियतोऽग्निविशेषहेतुको धूमोऽधिगतः प्रत्यक्षानुपलम्भाभ्यां तस्यैवान्वयव्यतिरेकौ प्रतिपत्तव्यौ । तस्य देशान्तरादावसम्भवात्। किं तर्हि ? | तादृशस्य सामान्यात्मन एव लिङ्गत्वात् तस्य चातथाविधादपि जन्माशङ्कायां कुतस्तथाविधेनान्वयो व्यतिरेको वा ? | तदुक्तम् -
B
" अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु । [T. 315b.] भावानामनुमानेन प्रतीतिरतिदुर्लभा ॥ ” [ वाक्य १.३२. ] इति । सिद्धान्तवाद्याह – “न, अतद्भाविनः " इत्यादि । एवं मन्यतेइहैकदा धूमादेरग्न्यादिसामग्रीजन्यतया [S. 148b.] प्रत्यक्षानुपलम्भाभ्यां निश्चितरूपत्वेऽपि तादृशस्यातादृशादपि भावः समाश15 ङ्कयते यथापरिदृष्टादन्यत्वेन । तत्र योऽसावग्न्यादिसामग्रीजन्यो धूमविशेष एकदा निश्चितस्तदपेक्षया यथाऽन्यो धूमविशेषस्तादृशो योऽन्यादृशादपि - भावानां विचित्रशक्तितया भवेदिति शङ्कयते, तथा सोऽप्येकदाऽग्न्यादिसामग्रीजन्यतया निश्चितस्तदन्यापेक्षया तादृश एव । तत्र यदि तदन्यस्य तादृश20 स्यातादृशाज्जन्म स्यात् तदा तादृशस्य स्वभावस्य नाग्न्यादिसामग्रीजन्यस्वभावतेति परिदृष्टस्यापि धूमस्य नाऽग्न्यादिसामग्री कारणमित्यायातम् । तादृशस्य स्वभावस्याऽग्न्यादिसामग्री - विलक्षणकारणजन्यस्वभावत्वात् । ततश्चाग्न्यादिसामग्र्या अकारणत्वात् यो मयैकदा ततो भवन् दृष्टो धूमः सोऽपि न भवेत् । 25 नहि यद् यस्य कारणं न भवति तत् ततः सकृदपि जायते, तस्याहेतुकत्वप्रसङ्गादिति । " अतद्भाविनः " इति तच्छब्देन विवक्षितमग्न्यादिकारणं परिगृह्यते, न तत् अतत्, तद्विलक्षणं अतादृशं शक्रमूर्द्धादिकम्, अंतस्माद् भवितुं [T. 3162 . ] शीलं १. प्रसिद्धि - वाक्य | २. इति चेत् । सिद्धा T. । ३. तदाइताह T. । ४. तेत्यप T. ५. तस्मात् - T
I
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org