________________
कार्यकारणभावप्रतीतेर्न दुर्लभत्वम् ।
१५३ तर्युक्तं " तदभावे भवतः तदुत्पत्तिनियम(मा)भावात् ” इति । सर्वथा जन्यजनकभावाभ्युपगमे [T. 314b.] तद्भावे भावस्यैवाभावादित्यत आह - " अविशिष्ट " - इत्यादि । यदि हि तज्जन्यविशेषग्रहणरहितमविशिष्टं कार्यमात्रमुपादीयते लिङ्गविशेषोपाधिरहितं वा द्रव्यादिकं तदा “ अविशिष्टसामान्यविवक्षायां " कारणगतवि- 5 शेषाभावेऽपि धूममात्रस्य भावात् तदविशिष्टस्य च द्रव्यत्वादेरग्यभावेऽपि भावाद् व्यभिचार इति सर्वथा [S. 147b.] जन्यजनकभावो नेष्यते, तदभावाद् गम्यगमकभावश्च । न तु विशेषविवक्षायाम् , तत्र व्यभिचाराभावात् । तथा हि - यदि नाम धूममात्रं तार्णपार्णादिविशेषाभावे भवति, न तु तज्जन्यो 10 विशेषः, स यदि ग्रहीतुं शक्यते, तदा विशेषस्य गम्यत्वमस्त्येव , निश्चितस्यैव लिङ्गत्वात् । तथा यद्यपि द्रव्यत्वसत्त्वमात्रमन्यभावेऽपि भवति न तु धूमात्मकमिति तद्विशिष्टस्याव्यभिचारादू गमकत्वमपि न वार्यत इति ।
[ $ ३. कार्यकारणभावप्रतीतेरतिदुर्लभत्वाशङ्काया निरासः। 15 अत्र परस्य वचनावकाशमाशङ्कयाह - " कस्यचित् ” धूमादेः " कदाचित् ” कस्मिंश्चित् काले " कुतश्चित् ” अम्यादेः " भावेऽपि " सति “ सर्वो ” धूमादिः “तादृशो" याहश एकदाऽस्यादेर्भवन् दृष्टः तज्जातीयः, “ तथाविधजन्मा " यथाविधात् स एको भवन् दृष्टः तादृशादेव जन्म यस्य स । “ तथाविधजन्मेत्येतत् कुतः ” प्रमाणादव- 20 सितम् ? येनोच्यते [T. 315a.] 'कार्यहेतौ कार्यकारणभावसिद्धिनिबन्धनावन्वयव्यतिरेको' इति। तथाहि - यदि नाम प्रत्यक्षानुपलम्भाभ्यां कस्यचिडूमस्याग्न्यादिसामग्रीकार्यत्वमवगतं किमेतावताऽन्यस्यापि [S. 148a.] तादृशस्य तादृशकार्यता सिध्यति, तत्र तंनिबन्धनयोः प्रत्यक्षानुपलम्भयोरव्यापारात् । यत्रैव हि 25 तयोर्व्यापारस्तस्यैव तत्कार्यता भवतु, तदन्यस्य तु किमायातम् ? येन तथाविधादस्य जन्म स्यात् । एवं हि कस्याश्चिमव्यक्तेरग्न्यादिजन्यता दृष्टेति किन्न घटादेरपि साऽभ्युपगम्यते ? अन्य१. पृ० १५१ पं० १. । २. कार्यकारणभावनिब।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org