________________
हेतुबिन्दुटीका। व्यत्वादीनां कारणस्थसामान्यधम्मैर्विना भवताम् । तदेवं कारपत्य सामान्यधर्मा एव गम्या न विशेषधाः, कार्यस्यापि विशेषषा एवं गमका न सामान्यधाः, तत्कार्यत्वनियमात् । ये तु कारणस्य विशेषधा यैस्तत्कार्यत्वनियमः कार्य5 मात्रस्य नास्तीति न ते गम्याः । ये च कार्यस्य सामान्यधम्मो द्रव्यत्वादयस्तेषामपि तत्कार्यत्वनियमाभावादेव गमकत्वं नास्तीति कार्यकारणभावेन गमकत्वे कुतः सर्वथा गम्यगमकभावः परेषामिव प्रसज्येत ।
[३२. जन्यजनकभावस्य सर्वथा सत्त्वेऽपि गम्यगमकभावस्य न तथात्वम् ।। 10 परस्यानिष्टपादनमाशङ्कयाह - " अंश्न " इत्यादि। यदि हि कारणस्य सामान्यधर्मा एव गम्याः कार्यस्यापि विशेषधा एव गमकाः तत्कार्यत्वनियमादिष्यन्ते, हन्त तयंशेन जन्यजनकभावः प्राप्तः । कारणस्य सामान्यधर्मा एव जनका न विशेष
धाः, कार्यस्यापि विशेषधर्मा एव जन्या न सामान्यधर्मा 15 इति स्यात् । सर्वथा च जन्यजनकभावोऽभिमत [T. 314a.] इ. त्यभ्युपगमविरोधः । एतत् परिहरति - नांशेन जन्यजनकभावप्रसङ्गः, निरंशत्वेन वस्तुनः सर्वात्मना तदभ्युपगमात्, गम्यगमकभावस्यापि सर्वथाऽभिमतत्वात् । तदाह - “ तज्जन्य " - इत्यादि । यदि हि कार्यस्य तैः कारणगतैविशेषधम्मैर्जन्यो यो 20 विशेषः स ग्रहीतुं शक्यते , तदा तज्जन्यविशेषग्रहणेऽभिमतस्वात् [S. 147a.] कारणगतविशेषधर्माणां गम्यत्वस्य । तथा लिङ्गविशेषो घूमत्वादिः उपाधिर्विशेषणं येषां द्रव्यस्वादीनां सामान्यानां कार्यगतानां तेषां चामिमतत्वाद्मकरवस्य। तथा हि- अगुरुधूमग्रहणे भवत्येव तदनेरनुमानं धूमस्वविशेषणेन च 25 द्रव्यत्वादिनाऽमेरनुमानम् । न हि सर्वथा जन्यजनकभावोऽस्तीत्येव तथैव गम्यगमकभावो भवति, तस ज्ञानापेक्षत्वात् । तथा हि-न सत्तामात्रेण लिङ्गस्य गमकत्वम् , तस्य ज्ञापंकत्वात् । सापको हि स्वनिश्चयापेक्षो ज्ञाप्यमयं ज्ञापयति, नान्यथा । कथं १. ज्ञापकापेक्षत्वात् - T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org