________________
कार्यकारणभावव्यवस्था। " तदभावे " तेषां तार्णपार्णत्वादीनां विशेषधर्माणामभावे " भवतो ” धूममात्रस्य तेभ्य एव विशेषधर्मेभ्यो भवतीति एवमात्मनः “ तदुत्पत्तिनियमस्याभावात् "। तथा “ तदभावे " अन्यभावे भवतो द्रव्यत्वादेः [T. 313a.] सामान्यधर्मस्याग्नेरेवायं भवतीन्येवंरूपस्य तदुत्पत्तिनियमस्याभावात् कुतः सर्वथा जन्यजनक- 5 भावः ?, यतः सर्वथा गम्यगमकभावः स्यात् । न ह्यसति तदुत्पत्तिनियमे जन्यजनकभावो व्यवस्थापयितुं युक्तः। यत एवं " तस्मात् कार्य ” धूमादिकं "स्वभावैर्यावद्भिवूमत्वादिभिः स्वगतः । इत्थम्भूतलक्षणा च तृतीया । " अविनाभावि " विना न भवति । कैविना न भवति ? ।' कारणे यावद्भिः स्वभावैः' इत्यत्रापि स- 10 म्बध्यते। कारणाश्रितैर्यावद्भिः [S. 146a.] स्वभावैविना ते कायंगताः स्वभावा न भवन्ति हेतुः तैस्तेषामिति गम्यते । क अविनाभावि?।" कारणे " कारणविषये अपरोऽर्थः "कारणे” आधारसप्तमी । इदानीं कारणस्थैः स्वभावैर्यावद्भिरग्नित्वद्रव्यत्वादिभिरविनाभावि तेषां कारणगतानां सामान्यधर्माणां हेतुः कार्य ग. 15 मकम् । कस्मात् ? इत्याह – “ तत्कार्यत्वनियमात् ” तेषामेव कारणगतानां सामान्यधर्माणां तत् कार्यमित्येवंरूपस्य नियमस्य सद्भावात् । नहि तान् सामान्यधर्मान् कदाचिदपि कार्य व्यभि- . चरति । ... एवं कारणगतमंशं पाश्चात्येनोर्थेन निरूप्य प्राक्तनेनार्थेन 20 कार्यगतमंशं निरूपयन्नाह - “ तैरेव च " इत्यादि । कार्यमपि तै- . रेव धम्मैः [T. 313b.] स्वगतैः कारणगतानां धर्माणां गमकम् यथाऽन्तरा सम्भविनो धूमत्वपाण्डुपार्णत्वादयो विशेषरूपास्तैः कारणगतैः सामान्यधम्मविना न भवन्ति । अत्रापि तत्कार्यत्वनियमात् । इत्यपेक्ष्यते । तेषामेव कार्यगतानां विशेषधाणां 25 कारणगतसामान्यधर्मापेक्षया कार्यत्वनियमात् । न हि ते विशेषधाः कार्यगताः [S. 146b.] कारणस्थसामान्यधम्मैश्विना कदाचिदपि भवन्ति । ततस्तेषामेव कार्यत्वनियमः, नान्येषां द्र१. शक्यः T. २. °नार्थिना T. । ३. पाण्डुत्वपार्ण T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org