________________
[३. कार्यहेतुनिरूपणम् । ]
[$ १. कार्यकारणभावव्यवस्था । ] तदेवं स्वभावहेतौ तादात्म्यसिद्धिनिबन्धनमन्वयव्यतिरेकनिश्चयं प्रतिपाद्य कार्यहेतौ कार्यकारणभावसिद्धिनिमित्तत्वात् त5 योस्तस्याश्च प्रत्यक्षानुपलम्भनिबन्धनायाः प्रागेव दर्शितत्वात् तद्गतमपरमपि परेषां भ्रान्तिकारणमपनेतुं तद्विषयं दर्शयन्नाह - " अर्थान्तरे ” हेतोर्व्यतिरिक्ते वस्तुनि गम्ये “ कार्य हेतुः " । अनर्थान्तरे तु स्वभावो हेतुरित्युक्तम् । कस्मात् [S. 145a.] पुनरर्थान्तरे कार्यमेव हेतुरित्याह – “ अव्यभिचारात् ” इति कार्यमेव यर्थान्तरं 10 न व्यभिचरति नान्यत् यथोक्तं प्राक् ततः कार्यमेवार्थान्तरे गम्ये हेतुरुच्यते संयोगवशाद्गमकत्वे । ____न च केनचित् " इत्यादिना' यः सर्वथा गम्यगमकभावप्रसङ्ग आचार्येणोक्तः परस्य , तमिहापि कार्यहेतौ परः कदाचित् प्रसञ्जयेदित्याशङ्कमान आह - " कार्यकारण-" इत्यादि । [T. 312b.] 15 यदि हि कार्य हेतुरुच्यते तदा कार्यकारणभावेन कारणेनास्य गमकत्वम् । तथा च सति सर्वथा गम्यगमकभावः प्रामोति । अग्नेः सामान्यधर्मवद् विशेषधा अपि तार्णपार्णादयो गम्याः स्युः। धूमस्यापि विशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयोऽपि सामान्यधर्मा गमका भवेयुः। कुतः ? " सर्वथा जन्यजनकभावात् ” । 20 जन्यजनकभावो हि कार्यकारणभाव उच्यते । स च नाग्नि
धूमयोरंशेन अपि तु सर्वेण प्रकारेण । तथाहि - यथा अ. ग्निरग्नित्वद्रव्यत्वसत्वादिभिः सामान्यधम्मैर्जनकः तथा ताणपार्णत्वादिभिविशेषधम्मैरपि, यथा च धूमो धूमत्वपाण्डुत्वा
दिभिः खनियतैविशेषधम्मैर्जन्यः तथा [S. 145b.] सामान्यध25 म्मैरपि सत्त्वद्रव्यत्वादिभिः। ततश्च यथा तयोः कार्यकारणभावः तथैव गम्यगमकभावः प्रामोति, तस्यैव तन्निवन्धनत्वादिति पूर्वपक्षाशङ्का। अत्राह - " न सर्वथा जन्यजनकभावः" ततश्च कुतस्तथा गम्यगमकभावः स्यात् । कस्मात् ? इति चेत् , १. पृ. १८. पं. २१ । २. °ना प्राक् यः T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org