________________
क्षणिकस्यैवार्थक्रियाकारित्वरूपं सत्त्वम् ।
१४७ विरोधात् निवृत्तेस्तव्याप्तायाः कार्यक्रियाशक्तेरपि निवृत्तिरिति सर्वशक्तिविरहलक्षणमसत्त्वमक्षणिकत्वे व्यापकानुपलब्धिराकपति, विरुद्धयोरेकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवतीति-'यत् सत् तत् क्षणिकमेव इत्यन्वयव्यतिरेकरूपाया व्याः सिद्धिनिश्चयो भवति। 5
ननु च प्रकारान्तराभावात् कार्यमङ्कुरादिकं बीजादिना क्रमयोगपद्याभ्यामेव क्रियत इत्युच्यते स एव तु प्रकारान्तरविरहः [T. 310b.] कार्यात्मनः कुतः सिद्धः ? । प्रकारान्तरस्योपलब्धिलक्षणप्राप्तत्वे कथमत्यन्तासम्भवः ? । केवलं देशादिनिषेधमात्रमेव स्यात् । अनुपलब्धिलक्षणप्राप्तत्वेनोऽसत्तानिश्चयो विप्रकर्षिणा- 10 मिति कुतस्तभावसिद्धिः । ततः प्रकारान्तरेणार्थक्रियासम्भबात् क्रमयोगपद्यनिवृत्तावपि नार्थक्रियासामर्थ्य निवृत्तिरिति कुतोऽक्षणिकत्वे सति सर्वसामर्थ्यविरहलक्षणमसत्त्वम् ?, यतः सत्त्वस्य क्षणिकात्मतयाऽन्वयंव्यतिरेको स्याताम् ? । न । उभयथाऽप्यदोषात् । [S. 143a.] तथा हि - क्रमो नाम परिपाटि: का-15 न्तिरासाहित्यं कैवल्यमथुरादेः, योगपद्यमपि तस्यापरैर्बीजादिकार्यै: साहित्यं । प्रकारान्तरं चाङ्कुरादेः तदुभयावस्थाविरहेऽप्यन्यथाभवनम् । तस्य चाङ्कुरादिस्वभावस्यान्यसहितस्य केवलस्य वाऽभावे प्रत्यक्षबोधगम्यमाने सत्युपलब्धिलक्षणप्राप्त एव स्वभावः क्रमयोगपद्यभावबहिर्भूतो नोपलभ्यते । वस्तुनः उपलभ्य- 20 स्यान्यसाहित्ये कैवल्ये चापनीते तंद्विविक्तदेशादिप्रतिभासिनः प्रत्यक्षस्योदयात् स्वभावानुपलम्भत एवाभावनिश्चयादिलक्षणव्यवहारवृत्तेः । तस्य चाङ्कुरादिभावस्यावस्थाद्वयबहिर्भावनिषेधे कयोश्विद्देशकालयोः देशान्तरादौ क्रमेणाङ्कुरादिभाववतीतरस्मिन् वा भावेऽपि न काचित् क्षतिः। ततः प्रत्यक्षत एव [T. 311a.] 25 प्रकारान्तराभावसिद्धेः कथं क्रमयोगपद्याभ्यामर्थक्रियाशक्तिरव्याप्ता स्यात् ।। शास्त्रकारस्तु यथा प्रत्यक्षत एव प्रकारान्तराभावसिद्धिः तथा स्वयम् "एतेन क्रमाक्रमादयोऽपीति अतिदिशन् वक्ष्यति। १. °त्वेन सत्तानिश्चयो न , वि° T.। २. प्रकारान्तर ।
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org