________________
हेतुबिन्दुटीका । योगाभावस्तेषामिति चेत् । एवं सति यदेवार्थक्रियासामर्थ्ययुक्तं तस्यैव सत्तायोग इत्यर्थक्रियासामर्थ्यमेव भावलक्षणमायातमित्यपार्थकः सत्तायोगः । “इत्थं च एवम् । अन्यथा सामान्यादीनां कथं स्वरूपं सत्त्वं स्यात् ? । अर्थक्रियासामर्थ्य तु सर्वेषामस्तीति 5 तदेव भावलक्षणम् । ____“ उत्पादव्ययध्रौव्ययुक्तं सत् " [तत्त्वार्थ० ५. २९.] इत्येतदप्ययुक्तम्, ध्रौव्येणोत्पाद्व्यययोविरोधात् एकस्मि(स्मिन्) धमिण्ययोगात् । कथञ्चिदुत्पादव्ययौ कथञ्चित् ध्रौव्यमिति चेत् । यथोत्पादव्ययौ न तथा ध्रौव्यम्, यथा च ध्रौव्यं न तथोत्पादव्ययाविति 10 नैकं वस्तु यथोक्तलक्षणं [S. 142a.] स्यात् । ततोऽन्यस्य भावलक्षणस्यायोगात् शक्तेश्चान्तशः स्वज्ञानजननेऽप्युपगमात् परैः, अन्यथा षट्पदार्थादिव्यवस्थानायोगात् सैव भावलक्षणम्, सर्वशक्तिविरहः पुनरभावलक्षणम् ।
सर्वग्रहणं च सर्वस्य वस्तुनो वस्त्वन्तरशक्तिविरहरूपत्वा15 दभावतानिरासार्थम् । यस्य तु न कचिच्छक्तिः स एवैकान्तेनाभाव उच्यते।
शक्तिलक्षणमेव सत्त्वमक्षणिके स्यात् ततः क्षणिकात्मता [T. 310a.] सत्त्वस्य न सिध्यतीति कुतोऽन्वयव्यतिरेको ? इति
चेत्, आह - " न चैवाक्षणिकस्य " कचित् कार्येऽन्तशो ज्ञानलक्ष20 णेऽपि शक्तिरस्ति तत् कुतस्तस्य तल्लक्षणं सत्त्वमतीतादेरिव भविष्यति ?, यतः सत्त्वस्य क्षणिकात्मता न सिध्येत् ।
ननु च शक्तेरतीन्द्रियत्वात् कारणानां कार्यारम्भनियमाभावाच कथं तद्विरहोऽक्षणिकस्य भवेत् यतोऽस्य सर्वशक्तिविरहलक्षणेनासत्त्वेन विरोधिना निराक्रियमाणं सत्त्वं क्षणिका25 त्मतामेवानुभवेत् यतोऽन्वयव्यतिरेको स्यातामित्यत आह - " क्रमयोगपद्याभ्याम् ” इत्यादि । नैव प्रत्यक्षतः [S. 142b.] कार्यविरहाद्वा सर्वशक्तिविरहोऽक्षणिकत्वे उच्यते, किन्तु तयापकविरहात् । तथा हि - क्रमयोगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिव्यापकयोस्तयोरक्षणिकत्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org