________________
अर्थक्रियाकारित्वमेव सर्व, तश्च क्षणिकानामेव । १४५ न्यायेन परिदृश्यमानविनाशानां घटादीनां " कश्चिद् " देशादिव्यवहितः पर्वतादिर्वाऽनुपलब्धविनाशः कृतकोऽपि सद्रूप आकाशादिवोऽकृतकः [S. 141a.] सन्न ऽतत्स्वभावोऽपि” अविनाशिस्वभावोऽपि स्यात् । अपिशब्दः सम्भावनायाम् । तेस्य विनाशिस्वभावसंसाधकप्रमाणाभावादाशङ्कयत एतत् । ततश्च विनाशि- 5 स्वभावसापेक्षत्वात् तदनपेक्षत्वमसिद्धमिति तवंशान् साध्यस्य [T. 309a.] क्षणिकत्वस्य सत्त्वस्वभावत्वासिडे: तन्निबन्धना नान्वयव्यतिरेकसिद्धिरिति । किं पुनरत्राशङ्कानिमित्तं येन कश्चिदतत्स्वभावोऽप्याशङ्कयत इत्याह - " न हि सर्वः सर्वस्य स्वभावः " इति। विचित्रस्वभावा हि भावा दृश्यन्ते - केचित् सप्र-10 तिघाः केचिदेप्रतिघाः, तथा नीलानीलादिस्वभावाः, तथा के चिदिनाशिनः अन्ये त्वविनाशिस्वभावाः शङ्कयन्त इति पूर्वपक्षाशङ्का।
न -'कश्चिदतत्स्वभावोऽपि स्यात् '-इति आशङ्कनीयम् , तथाभावे ह्यक्षणिकत्वं तस्य स्यात् । तस्मिंश्च सत्यवस्तुत्वप्रसङ्गात् 15 कुतोऽतत्स्वभावताशङ्का ? । कथं पुनरक्षणिकत्वेऽवस्तुत्वप्रसङ्गः ।
यतः सत्त्वस्य क्षणिकत्वस्वभावतयाऽन्वयव्यतिरेकसिद्धिरित्यत ' आह - " शक्तिर्हि " इत्यादि ।
[ $ ४५. अर्थक्रियाकारित्वमेव सत्त्वं, तञ्च क्षणिकानामेवेति ।]
एवं मन्यते - इह तावदिदमेव विचारणीयम् [S. 141b.] किं-20 लक्षणमेतद् भावानां सत्त्वं युक्तमिति । तत्र न सत्तायोगलक्षणमव्याः, सामान्यादिष्वभावात् । वन्ध्यासुतादिष्वपि भावाद अतिव्याप्तेर्वा । वन्ध्यासुतादीनामसत्वात् कथं सत्तायोगः १ इति चेत् । न । इतरेतराश्रयात् । यतस्तेषामसत्त्वं सत्तायोगविरहादेव [T. 309b.] तद्विरहश्चासत्त्वादिति । यदि च सतामेव सत्तायोगः 25 एवं तयन्यत् सत्त्वलक्षणमभिधानीयम् सत्चायोगस्य च वैयर्थ्यम्, तत एव वस्तुनः सत्त्वात् । सव्वार्थक्रियासामर्थ्यविरहात् सत्ता१. विप्रकृष्टः - T. । २. आकाश । ३. अनपेक्षत्ववश्यत् । ४. घटपटादयः। ५. विज्ञानादयः ।
६.वस्तुत्वत्रसङ्गत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org