________________
१४४
... हेतुबिन्दुटीका। .. ऽवश्यम्भाविविनाशतयोपगतः परैरिति स्वभावहेतुप्रसङ्गप्रयोगो विपर्यये बाधकं प्रमाणं पूर्वाचार्यप्रदर्शितम् । “ततः” तद्भावनियतत्वे, नाशस्याकादाचित्कत्वादुद्यानन्तरं नाश इति “ यः सन् " कृतकलक्षणो भावः " स विनाशी " विनश्वरस्वभावो नश्वरतायाः 5 साध्यधर्मस्य निवृत्तौ च कृतकलक्षणसत्त्वनिवृत्तिरिति कृत्वा कृतकलक्षणस्य सत्त्वस्य क्षणिकतायामन्वयव्यतिरेकसिद्धिः सम्पद्यते अनपेक्षयाऽनुक्रान्तसत्त्वक्षणिकत्वयोस्तादात्म्यसिद्धेः तन्निबन्धनयोरन्वयव्यतिरेकयोरपि निश्चयात् ।।
तदेवं पूर्खाचार्यान् प्रति अकृतकस्य सतोऽभावात् " सद10 कारणवन्नित्यम् ” [वैशे० ४. १. १. ] इति नित्यलक्षणविरहादेव न तन्नित्यत्वम् । यत्तु [S. 140b.] सद् उत्पत्तिमत् तद् उक्तेन न्यायेनावश्यंनाशितयोपगतं परैः कालान्तरस्थायि न भवतीति प्रति पादितम् ।
[$ ४४. सामान्येन सत्त्वक्षणिकत्वयोस्तादात्म्यव्याप्तिप्रदर्शनम् । ] 15 यदा तु यत् सत् तत् क्षणिकमेवेति सामान्येनोच्यते कृतकाकृतकलक्षणं सतो भेदमनपेक्ष्य प्रौढवादितया कृतकस्यापि चावश्यम्भावी विनाश इति परोपगमो [T. 308b.] नापेक्ष्यते, तदा विनाशं प्रत्यनपेक्षत्वमेव सर्वस्य न सिध्यति । येषां हि विनाशो भवं(वन्) दृष्टो घटादीनां तेषामेव तडेत्वयोगात् तत्रा20 नपेक्षा युज्यते। ये तु देशादिव्यवहिताः पर्वतादयो वा विनशा
माविशन्तो न दृष्टाः तेषामवश्यं विनाशित्वोपगमनिवन्धनाभावादन्त्येऽप्ययं विनाशं प्रत्यनपेक्ष एव विनश्यन्न विशेषादादावपि तद्भावनियत इति वक्तुमशक्यत्वात् तंत्स्वभावसापेक्षत्वात् । विनाशं प्रत्यनपेक्षत्वासिद्धेरकृतकानां चाकाशादीनां विनाशिस्व25 भावसापेक्षाणामित्यनपेक्षया सतो नश्वरस्वभावताऽसिद्धेः अन्वयव्यतिरेकयोस्तन्निबन्धनयोरयोगमुत्पश्यन्नर्थक्रियाविरोधलक्षणमेव तदा बाधकं प्रमाणं तादात्म्यप्रसाधकमभिधानीयमिति मन्यमानः पूर्वपक्षमुत्थापयन्नाह - " स्वभावतो " नश्वरत्वेऽप्युक्तेन १. अनित्य ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International